________________
१७८
क्षीरतरङ्गिण्यां
। [अथ सेट प्रात्मनेपदिनः] ११. ईर गतौ । इतः पृचिपर्यन्ता (२।२१) द्वादश सेट प्रात्मनेपदिनरंच । ईर्ते । ईरिता । चुरादौ ईर क्षेपे (१०।२०५) ईरयति । कम्पने च इत्येके ॥६॥
१२. ईड स्तुतौ'। ईट्ट, ईडिता। ईडजनोधै च (७।२।७८) इतीटि ईडिष, ईडिध्वे । ईडा । इडाया वा (८।३।५४) इति लिङ्गाद् इडा' । ईड्यः ॥६॥
१३. ईश ऐश्वयें। भुव ईष्टे । ईशः से (७।२।७७) - ईशिषे । ईशिता । अधीगर्थदयेशां कर्मणि (२।३।५२)षष्ठी । ईशानः । ईशः । स्थेशभास (३।२।१७५) इति वरच्-ईश्वरः ॥१०॥
१४. प्रास उपवेशने । प्रास्ते । आसिता । अधिशीस्थासां कर्म (१॥ ४।४६) खट्वामध्यास्ते । ईदासः (७।२।८३)-पासीनः । दयायासश्चः(३।१।३७) इत्याम्-पासांचक्रे । गत्यर्याकर्मक (३।४।७२)
इति क्तः उपासितो गुरुं चैत्रः । ण्यासश्रन्थो युच् (३।३।१०७)१५ आसना ॥११॥
१५. प्राङ शासु इच्छायाम् । प्राशास्ते। आशासिता। शासु अनुशिष्टौ (२।७५) तु धात्वन्तरं ह्रस्वनिषेधादिविषयम्-नाग्लोपिशास्वृदिताम् (७।४।२) अशशासत् । शास इवङ्हलोः (६।४।३४) अशिषत् । क्वावुपसंख्यानम् (६।४।३४ वा०) प्राशीः । क्ते (द्र० ७।२।१५) प्राशास्तः । अनुदात्ततश्च हलादेः (३।२।१४६) युच्प्राशासनः । प्राशास्तिः-गुरोश्च हलः (३।३।१०३) इति नास्ति
१. कागकृत्स्नः (पृष्ठ १२५),दुर्गसिंहश्च इत्थमेव पठतः ।
२. 'ईड ईल स्तुतौ' इति काशकृत्स्नः (पृष्ठ१२५)। अत्र ५३ पृष्ठस्था पूर्वोल्लिखिता टि० १ द्रष्टव्या। ३. इल धातोः (६।६५) 'इला' इत्यपि । २५ ४. 'भुव ईष्टे' इति प्रागुक्त प्रयोगे।
५. वरचि स्त्रियामीश्वरा । अश्नुतेराशुकर्मणि वरट् च (उ० ५॥५७) इति वरटष्टित्त्वात् स्त्रियामीश्वरी भवति । - ६. अत्र एतद्धातुसूत्रस्था सायणीया धातुवृत्तिः (पृष्ठ २३२) अनुसंधेया।
तत्र स्वामिमते प्रकृतस्याङः शासुधातोरप्युपधाह्रस्वत्वनिषेध उक्तः । इह तु न ३० तथा पाठ उपलभ्यते ।