________________
२३
• अदादिगण (२)
१७७
(१।३।१३०) इति युच्-सुदोहनः, गोदोहनो घटः; गौरादौ' (द्र० गण० ४।१।४१) गोदोहनी' । उणादौ दोहदो ऽभिलापविशेषः ।।४॥ . ६. दिह उपचये । उपचयोऽत्र लेपः । नेर्गदनद (८।४।१७) इति णत्वम् - प्रणिदेग्धि । शिष्टं प्राग्वत् । दिग्धः, संदिग्धः। देहनो घटः, गौरादौ (द्र० गण० ४।१।४१) देहनी । उणादौ-देहली' द्वाराधो ५ दारुः । देहः ॥५॥ ____७. लिह प्रास्वादने । लेढि, लीढे । अलिक्षत् । क्सत्याचि (७।३। ७२) अलिक्षाताम् । लुग वा दुह (७।३।७३) इत्यलोढ अलीढाः, अलिक्षत अलिक्षथाः। श्याव्यध (३।१।१४१) इति णः-लेहः ।. वहाभ्रे लिहः (३।२१३२) खश्-वहंलिहः, अभ्रंलिहः । घञ् (द्र० ३। १० ३।१८, १६)-लेहः । पालीढः ॥६॥ . .
[८. अनुदात्ताः स्वरितेतः॥] ____. चक्षिङ् व्यक्तायां वाचि, १०. अनुदात्तोऽनुदात्तेत् । ङित्करणं नुम्निषेधार्थम्, अन्तग्रहणं हि तत्र (७।१।५८ सूत्रे) अनुवर्तते, गणकृत्यमनित्यम् (तु० सीर० परि० १२१) इति ज्ञापनार्थं च । १५ यथा-स एवायं नागः सहति कलभेभ्यः परिभवम् (सुभाषित ६३१)। प्राचष्टे । चक्षिङः ख्याज (२।४।५४)-आख्याता । वा लिटि (२॥ ४।५५)-चख्यौ चख्ये,चचक्ष चचक्षे । अस्यतिवक्तिख्यातिभ्योऽङ् (३। ११५२)-आख्यत् । न ध्याख्या (८।२।५५) इति ख्यातः । चक्षेः शिच्च (उ० २।११६) इत्युस् -चक्षुः । चक्षेर्बहुलं शिच्च (उ०४।२३३) इत्य- २० सुन्-नृचक्षा राक्षसः, अवचक्षाः ॥७॥
१. नहि गौरादिषु पठ्यते । 'पिप्पल्यादयश्च' इत्यवान्तर्गणस्याकृतिगणत्वात् संभवति ।
२. द्र० हेमोणादि २४४ । . ३. अस्यैव पृष्ठस्य टिप्पणी १ द्रष्टव्या।
४. सरस्वतीकण्ठा० २।३॥१८॥ हैमोणादि ४६५ । ५. अत्र क्षीरस्वामिनोऽमरटीका (२।८।८६) द्रष्टव्या।
६. अयं भावः -- यत्रान्ते इकार इद् भवति, तवैव नुम्विधानम् । अत्र तु इकारस्येत्वेऽपि नान्त इकार इत्, तेन नात्र नुम् भवति ।
.७, 'वा' पाठा० । सायणेन मतमिदं निराकृतम् धातुवृत्तौ (पृष्ठ २३०) ।