________________
१७४
क्षीरतरङ्गिण्यां २. हन हिंसागत्योः। हन्ति । हन्ता । ऋद्धनोः स्ये (७।२७०) इतीट् - हनिष्यति । हो हन्तेञ्णिन्नेषु (७।३।५४) इति घः-अघानि, घ्नन्ति । नेर्गद (८।४।१७) इति णत्वम-प्रणिहन्ति । हन्तेरत्पूर्वस्य (८।४।२२) प्रहणनम् । मोर्वा (तु० ८।४।२३) प्रहण्वः प्रहन्मः, प्रहण्मः प्रहन्मः । प्राडो यमहनः (११३।२८)-इत्यकर्मकात् तङ - आहते । स्वाङ्गकर्मकाच्च (१।३।२८ वा०)- अाहते शिरः, नेह - आहन्ति शिरः शत्रो; । व्यतिहारे-न गतिहिंसार्थेभ्यः (१।३।१५) व्यतिघ्नन्ति । गमहन (६।४।१८) इति अल्लोपः, अभ्यासाच्च (७।३।
५५) इति घः- जघान, जघ्नुः । विभाषा गमहनविदविशाम् (७।२। १० ६८) इति वेट - जघन्वान्, जघ्निवान् । स्यसिच्सीयुटतासिषु (६।४।
६२) इति चिणवदिट् च-घानिष्यते। हन्तेर्जः (६।४।३६) जहि शत्रुम् । हनो वध लिङि (२।४।४२)- वध्यात् । वधिभावात् सीयुट्चिण्वद्भावी' विप्रतिषेधेन (तु० ६।४।५२ वा०)-वधिषीष्ट, घानिषीष्ट । लुङि च (२।४।४३) अवधीत्। प्रात्मनेपदेष्वन्यतरस्याम् (२। ४।४४) पाहत, आवधिष्ट, हनः सिच् (१।२।१४) इति कित्त्वम् । अज्झनगमां सनि (६।४।१६) दीर्वः- जिघांसति । यङ-जङ्घन्यते, हन्तेहिसायां नी (७।४।३० वा०) जेनीयते। हनस्तोऽचिण्णलोः (७।३।३०) घातयति, अजीघतत् । हनो वा वध च (३।११९७ वा.)
इति वा यत् - वध्यः घात्यः। हनस्त च (३।१।१०८) इति भावे २० क्यप्– ब्रह्महत्या । लषपतपद (३।२।१५४) इत्युकत्र .. घातुकः ।
हनश्च वधः (३।३.७६) वध,, घातो वा। मूर्ती घनः (३।३।७७) दधिधनः । अन्तर्घनोदेशे (३।३।७८), अगारैकदेशे प्रघणः प्रघाणश्च (३।३।७६) । उद्घनोऽत्याधानम् (३।३।८०), निधाय तक्ष्यते यत्र
काष्ठं काष्ठं स उद्घनः (अमर ३।२।३५) । अपघनोऽङ्गम् (३।३। २५ ८१)। करणेऽयोविद्रुषु (३।३।८२) अयोधनः । स्तम्बे क च (३।३।
८३) स्तम्बघ्नः, स्तम्बघनः । परौ घः (३।३।८४) -परिघः। उपघ्न आश्रये (३।३।८५) संवोद्घौ गणप्रशंसयोः (३।३।८६) । निघो निमितम् (३।३।८७)। घजर्थे कविधानाद् (द्र० ३।३।५८ वा०) विघ्नः,
१. 'सुट्सीयुचिण्वद्भावा' पाठा० । 'सीयुटि चिण्वद्भावो विप्रतिषेधेन' ३० इति युक्तः पाठः । द्र० महाभाष्य ६।४।६२ ॥ लिबिशेन नात्राकरग्रन्थनिर्देश:
कृतः । .. २. अत्र लिबिशेन सत्यपि पाठ भेदे काशिकाया निर्देशः कृतः ।