SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ॥अथादादिगणः॥ [प्रथानिटौ परस्मैपदिनौ] १. अद भक्षणे । इतो द्वावनिटौ परस्मैपदिनौ च । अत्ति, अदिप्रभृतिभ्यः शपः (२।४।७२) लुक् । अदन् अदती। व्यतिहारे (द्र० १।३।१४) व्यत्यदन्ते' । लुङ्सनोर्घस्लु (२।४।३७)-अघसत्, जिघ- ५ त्सति । लिटयन्यतरस्याम् (२।४।४०)--जघास, जक्षुः, शासिवसिघसीनां च (८।३।६०) इति षत्वम् । प्राद । इडतिव्ययतीनाम् (७। २०६६) आदिथ। अत्स्यति । प्रदः सर्वेषाम् (७।३।१००) इति लङयट-पादत । अदिखादिनीवहीनां (१।४।५२ वा०) कर्मसंज्ञा नास्ति-पादयति पिण्डी चैत्रेण । प्रदो जग्धिय॑प्ति किति (२।४। १० ३६) जग्धम्, जग्ध्वा , प्रजग्ध्य । उणादावन्नम् (द्र० उ० ३।१०)। सृघस्यदः क्मरच् (३।२।१६०) अमरः, घस्मरः। घस्लभावेऽच्युपसंख्यानम् (२।४।३७ वा०)प्रात्तीति प्रघसः । उपसर्गेऽदः (३॥३॥५६) विघसः, नेह-घासः, घअपोश्च (२।४।३८) इति घस्लादेशः । नौ ण च (३।३।६०)-न्यादः, निघसः । प्रदोऽनन्ने (३।२।६८) क्विप'- १५ ग्राममत्तीत्यामात्', नेह-अन्नादः, अण् (द्र० ३।२।१)। क्रव्ये च (३।२।६६) ऋव्यात्, क्रव्यादः । प्रदिशदि (उ० ४।६५) इति क्रिन् -- अद्रिः । अदेस्त्रिन् त्रिनिश्च (द्र० द० उ० ११३७) अत्रिमुनिः, अत्त्री क्रिमिः । जत्वादौ (द्र० उ०४।१०२) अत्यु: । प्रदेर्धश्च (द० उ० ६।७१) इति क्वनिप् - अध्वा मार्गः । प्रदो नुम् धौ च २० (द० उ० ६।६६) इत्यसुन् - अन्धोऽन्नम् । घसेः किच्च (उ० ४।३४) इतीरन्-क्षीरम् ॥१॥ १. 'व्यत्यत्ते' पाठा। २, सार्वत्रिकोऽप्यपपाठोऽयम् 'विट्' इति शुद्धः पाठः । ३. अयं वा [ऽग्निरा ऽमाद येनेदं मनुष्याः पक्त्वाऽश्नन्ति । श० ब्रा० २५ १।२।१।४॥ - ४. येन [अग्निना] पुरुषं दहन्ति स ऋव्यात् । श० ब्रा० १।२।१।४॥ . .. ५. 'अत्रुः क्षुद्रजन्तुः' इति हैमोणादिः (सूत्र ८०६) ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy