________________
१०
१५
१७२
1. क्षीरतरङ्गिण्यां
श्वय
( ७।२।५ ) इति वृद्धिर्नास्ति । नृस्तन्भु ( तु० ३ | १|५८ ) इत्यङ, तेर: ( ७|४|१८ ) प्रश्वत् । श्वनुक्षन् ( उ० १।१५६ ) इति श्वा, मातरिश्वा ॥ ८० ॥
७४२. वृत् । यजादिरन्तर्गणो वर्तितः ।
भट्टेश्वरस्वामिपुत्र-क्षीरस्वाम्युत्प्रेक्षितायां धातुवृत्तौ क्षीरतरङ्गिण्यां शब्दिकरणो भूवादिगणः ' सम्पूर्णः समाप्तः' ।
१. 'इकां यभिर्व्यवधानं व्याडिगालवयोः' इति वचनात् ( भाषावृत्तौ ६।१।७७ उद्धृतम्) वकारस्य व्यवधानम् । यत्तु महाभाष्यकृता 'भूवादीनां वकारोऽयं मङ्गलार्थ: प्रयुज्यते ' ( १ । ३ । १ सूत्रे) इत्युक्तं, तस्यायमर्थः - भूवादयो धातवः (१।३।१) इति सूत्रयता भगवता पाणिनिना वकारस्य व्यवधानं कृत्वा व्यवहितोऽपि सन्धिर्भवतीति सूचयता छात्राणां मंङ्गलं विहितम् । अत एवोक्तं पतञ्जलिना - 'अध्येतारश्च मङ्गलयुक्ता यथा स्युः । अत्र विशेषोऽस्मदीये ‘संस्कृत व्याकरण - शास्त्र का इतिहास' नाम्नि ग्रन्थे (सं० २०४१ ) प्रथमाध्याये द्रष्टव्यः (पृष्ठ २८ - ३२; च० संस्क० ) ।
२. ' इति क्षीरस्वाम्युत्प्रेक्षितायां क्षीरतरङ्गिण्यां धातुवृत्तौ भूवादिगणः समाप्तः' इति पाठान्तरम् ।