________________
१७१
भ्वादिगणः (१) क्षेत्रे विवदन्ते, नाना वदन्तीत्यर्थः; परदारानुपवदते, रहस्युपच्छन्दयतीत्यर्थः । व्यक्तवाचां समुच्चारणे (१।३।४८) सम्प्रवदन्ते' द्विजाः। विभाषा विप्रलापे (१।३।५०) विप्रवदन्ते मौहूर्तिकाः, विप्रवदन्ति वा । अनोरकर्मकात् (१।३।४६) अनुवदते कठः कलापस्य। अपाद् वदः (१।३।७३). अकर्जभिप्राये क्रियाफले- अपवदत, अपवदति। ५ उद्यते । वदव्रज (७।२।३) इति वृद्धि:-अवादीत् । न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदसः (१।३।८६) आत्मनेपदं णिचि- वादयते वीणाम् । अवद्यपप्यवर्यागी (३।१।१०१) इत्यवद्यं गा साधु । राजसूयसूर्य (३।१।१४४) इति मृषोद्यम् । वदः सुपि क्यप् च (३।१। १०६) ब्रह्मोद्यम्, ब्रह्मवद्यम् । प्रियवशे वदः खच् (३।२।३८) प्रियं- १० वदः, वशंवदः । यजजपदशां यङः (३।२।१६६) वदेरपीष्यते वावदूकः । उत्तिः- तितु (७।२।६) इति नेट, इडपीष्यते-उदितिः । मृडमृद (१।२।७) इति क्त्वा कित्-उदित्वा। अच्छगत्यर्थवदेष (१॥ .४।६६) गति संज्ञः-अच्छोद्य । वृतवदि (उ० ३।६२) इति सः-- वत्सः । वदेरान्यः (उ० ३।१०४) वदान्यो दाता। वदन्योऽपोष्टः। १ वसिवपिवदि (द० उ० १।४३) इती–वादिः । भूवादिगृभ्यो णित्रन् ( उ० ४।१७७ श्वेत.) वादित्रम् ॥१७॥ . ७४१. टुप्रोश्वि गतिवृद्धयोः, सेट् । श्वयति । श्वयिता । श्वयथुः । प्रोदित्त्वात् (द्र० ८।२।४५) निष्ठानत्वम्, श्वोदितो निष्ठायाम (७।२।१४) नेट-शूनः । यजादित्वात् (द्र० ६।१।१५)- १० शूयते । विभाषा श्वेः (६।१।३०)लिङ यङोः सम्प्रसारणम्-शिश्वाय, शुशाव; शिश्वियुः, शुशुवुः; शेश्वीयते, शोशूयते । णौ च संश्चडोः (६।१।३१) शुशावयिषति, शिश्वाययिषति; अशूशुवत् अशिश्वयत् । विभाषा धेश्व्योः (३।१।४६) चङ-अशिश्वियत् अश्वयीत्-हम्यन्तक्षण
HHHHELH
१. 'प्रवदन्ते' पाठा० । २. 'वा' क्वचिन्न ।
२५ ३. 'कलापकस्य' पाठा० । धातुवृत्तावपि (पृष्ठ २१२) 'कलापकस्य' पाठः। ' शुद्धः पाटस्तु 'कलापस्य' इत्येव (द्र० काशिका १।३।४६)। ___४. 'यजजप इत्यत्र वदेरनूपदेशः कार्य इति पदकारवचनादूकः' इति अमरटीकायां (३।१।३५) क्षीरस्वामी । लिबिशेनात्र तुलनाय उणादे: ४।४१ संख्या निर्दिष्टा । सा चिन्त्या, यजजप' इत्याबू कविधायकस्य सूत्रस्य प्रत्यक्षं निर्देशात् । ३०
५. 'दानशील:' पाठा० ।