________________
१७०
क्षीरतरङ्गिण्यां
सम्प्रसारणम् - संवेवीयते । व्यश्च (६।११४३) इति न ल्यपि सम्प्रसारणम्--संव्याय । विभाषा परेः (६।१।४४) -परिवीय परिव्याय । शाछासाह्वा (७।३।३७) इति युक-संव्यायति । नौ व्यो यलोपः पूर्व[पदस्य च दीर्घः (उ० ४।१३६) नीविः, नीवी' ॥९७७।। ____७३७. हज स्पर्धायां शब्दे च' । ह्वयते, ह्वयति । निसमुपविभ्यो
ह्वः (१।३।३०) तङ-निह्वयते, संह्वयते, उपह्वयते, विह्वयते। स्पर्धायामाङः (१३।३१) मल्लो मल्लमाह्वयते । अाहूयते । ह्रः सम्प्रसारणम्, अभ्यस्तस्य च (६।१॥३२,३३) जुहुवुः, णौ च संश्चङो: - जुहारयिषति, अजूहवत् । लिपिसिचिह्वश्च (३।१।५३) इत्यङ - आह्वत् । प्रात्मनेपदेष्वन्यतरस्याम् (३।१।५४) आहत अाह्वास्त । शाछासा ७।३।३७) इति युक् - ह्वाययति । हावामश्च (३।२।२) इत्यण् - स्वर्गाह्वायः । प्रातश्चोपसर्ग (३१११३६) प्रह्वः । ह्वः सम्प्रसारणं च न्यभ्युपविषु (३।३।७२) इत्यप् निहवः । प्राङि युद्धे
(३।३।७३) आहवः । निपानमाहावः (३।३।७४)। भावेऽनुपसर्गस्य १५ (३।३।७५) हवः । छित्वरादौ (द्र० उ० ३।१) उपह्वरः । बाहुलकाद् आह्वयः ।।९७८॥
७३८. [अनुदात्ताः] । __७३६. वद व्यक्तयां वाचि, ७४०. उदात्त उदासेत् । वदति ।
वदिता। भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः (१।३।४७) २० तङ -वदते चार्वी लोकायते, भातीत्यर्थः, गेहे वदते, यतत इत्यर्थः,
१. 'मूलधनम्' इति क्वचिदधिकम् । २. स्पर्धायां वाचि' इति काशकृत्स्नः (पृ० ११७) ।
३. ह्वः संप्रसारणम् (६।१।३२) इत्यत्र ‘णौ च संश्चङोः' इत्यनुवर्तनादिति भावः । लिबिशेनात्र भ्रान्त्या सूत्रनिर्देश इति बुद्ध्वा ६।१।३१ सूत्र२५ संख्या निर्दिष्टा । णौ च संश्चङोः' इत्यनेन सूत्रेण (६।१।३१) तु श्वयतेविभाषा संप्रसारणं विधीयते ।
४. वेत्रादीनामनुदात्तत्वविधानार्थ सूत्रमिदमपेक्षते, न चोपलभ्यते । ५. काकाक्षिन्यायेन सूत्रमिदमनेनेनोत्तरेण, चोभाभ्यां संबध्यते । ६. काशकृत्स्नस्तु सामान्येन 'वद' धातुमुभयपदिनं मनुते (पृष्ठ ११७) ।