________________
भ्वादिगणः (१) ७३५. वेन तन्तुसन्ताने । इतस्त्रयोऽनिटः । वयते, वयति । वेजो वयिः (२।४।४१) अहिज्यावयि (६।१।१६) इति सम्प्रसारणम्, लिटि वयो यः (६।११३८) इति यकारस्य नास्ति-ऊयुः। थलि च'उवयिथः । वश्चास्यान्यतरस्यां किति (६।११३६)ऊवुः । लिट्यन्यतरस्याम् (२।४।४०) इति यदा वयिर्नास्ति तदा वेत्र इति धातोरभ्या- ५ सस्य च सम्प्रसारणनिषेधः ववौ, ववः । शाछासाह्वाव्यावेपां युक् (७।३।३७) वाययति । हावामश्च (३।२।२) इत्यणि तन्तुवायः । ल्यपि च (६।१।४६) इति न सम्प्रसारणम् - प्रवाय। ऊतियतिजति (६।३।९७) इत्यूतिर्वपनम् । वेमो डिः (द्र० द० उ० ११६२) विः पक्षी । मनिन् (द० उ० ६।७३ वेमा । वेनो डित् (द० उ० ११३६) १० - वीचिः ॥६७६॥
७३६. व्येञ संवरणे। संवरणमाच्छादनम् । व्ययते, व्ययति । संवीयते । न व्यो लिटि (६।१।४६) इत्येच आत्त्वं नास्ति - संविव्याय । इडत्यतिव्ययतीनाम् (७।२।६६) संविव्ययिथ । अनभ्यासस्य इत्युपधादी? नास्ति। स्वपिस्यमिव्येतां यङि (६।१।१६) १५
१. अत्र लिबिशेन भ्रान्त्येदं सूत्रप्रतीकमिति मत्वा ६।४।१२१ संख्या निर्दिष्टा, नात्रास्य सूत्रस्य किंचित् कार्यम्। २. 'तन्त्रवायः' पाठा० । ___३. संवरणमुपयोगः । व्ययति व्ययते व्ययं करोतीत्यर्थः' इति काशकृत्स्नधातुपाठकन्नडटीकानुसारमर्थनिर्देशः (द्र० पृष्ठ ११७) । कन्नडटीकानुसारम् एतद्धातुनिष्पन्ने 'व्यय' शब्दे चायमेवार्थः स्पष्टमुपलभ्यते । 'व्ययः, व्ययनम्' "२. आत्त्वाभावः कथमिति नोक्त टीकाकृता।
४. अत्राह सरस्वतीकष्ठाभरणटीकाकारो दण्डनाथ: केचिलि थल्यपि विशेषनिर्देशेनैव सिद्धे 'अलिटि' (स०क०सूत्रम् ) इति सामान्येन निर्देशात् व्ययतेलिटि संप्रसारणं पूर्वत्वं वा विभाषयन्ति । तेन संविव्ययतुः संविव्ययुः इत्याद्यपि भवति । तद्यथा संविव्ययुर्वप्सनचारु चमूस मुत्त्थं पृथ्वीरजः करभकण्ठकडोर- २५ माशाः (तु० शिशुपालवध ५॥३) । द्र० स० कण्ठा० ६।१।५६ । शिशुपालवधव्याख्याता वल्लभदेवः ‘संविव्ययुः, संविव्युः' इत्युभयथा पाठमाह । अत्र सरस्वतीकण्ठाभरणसम्पादकस्य टिप्पण्यपि द्रष्टव्या।। । ५. अत्र लिबिशेन भ्रान्त्या ६।१।८ सूत्रसंख्या निर्दिष्टा । इह वाक्यस्यास्य तात्पर्य न विदमः ।