________________
५
क्षीरतरङ्गिणां
जवपुरुषयोर्नशिव हो: ( ३।२।४३ ) णमुल् – पुरुषवाहं वहति प्रवाहः । उद्यतेऽनेनेति वाहः स्कन्धोऽश्वश्च' । गोचरसंचर । ( ३|३|११ ) इति वहः साधुः । वहो ध च (द० उ० १।१६६ कपाठः ) इत्यू : - वधूः । वहिश्रियुग्लाहा ( उ० ४।५१ ) इति निः - वह्निः । श्रशित्रादिभ्य इत्रोत्रौ (उ० ४।१७३) – वहित्रम् ॥१७४॥
१६८
७३२. अनुदात्ताः स्वरितेतः ॥
७३३. वस निवासे । ७३४. अनुदात्त उदात्तेत् । वसति । उवास, ऊषुः । उष्यते, शासिवसिघसीनां च ( ८|३|६० ) इति षत्वम् । निवत्स्यति ( द्र० ७ ४ ४९ ) । न पादमि (१/३/८६ ) इति तङ - वास१० यते । भाषायां सदवस वः ( ३।२।१०८ ) ऊषिवान् । अमावास्यदन्यतरस्याम् (तु० ३।१।२२) अमावास्या, अमावस्या | वसतिक्षुधोरिट् (७/२/५२) गत्यर्थाकर्मक (३।४।७२ ) इति क्तः - उषितः । मृडमृद (१।२७) उति क्त्वा कित् - उषित्वा । वसेस्तव्यत् कर्तरि णिच्च (३।१।९६ वा०) - वास्तव्यः । अमेरतिः, वहिवयतिभ्यश्चित् १५ ( उ० ४।५६, ६० ) - वसतिः । शस्वस्निहि ( उ० १|११ ) इत्यु:वसुः । वसेस्तु ( उ० १।७६ ) वस्तु । अगारे णिच्च ( उ० १।७७) वास्तु । श्रतिकमिभ्रमिदेविवासिभ्यश्चिद् (तु० द० उ० ८।६२) इत्यरन् - वासरम् । वसिवपि ( उ० ४।१२५ ) इतीञ् वांसिः, वासी तक्षभाण्डम् रक् ( द्र० उ० २।१३ ) – उस्रो रश्मिः, षत्वं नेष्यते । २० धापूवस्यज्यतिभ्यो नः ( उ० ३।६) वस्नं मूल्यम् । वसेः सरः ( द्र० उ० ३।७१)–वत्सरः । वसे: कसुन् ( द्र० उ० ४।२३४ ) – उषः । उपसर्गे वसेः ( उ० ३।११४ ) इत्यथः - श्रावसथः । तृभूवहिवसि ( उ० ३।१२८) इति झच् - वसन्तः । वसस्तिप् (तु० द० उ० १।७४ कपाठः) वस्तिर्मेद्रोर्ध्वं नाभेरधः, वस्तयो वस्त्रान्तावयवाः । बस्त गन्ध अर्दने (१०।१३२) अस्य बस्तरछागः । प्रदादौ वस श्राच्छादने (२) १६) वस्ते वस्त्रम्, वासस् । दिवादौ वसु स्तम्भे ( ४।१०८) वस्यति । चुरादौ वस स्नेहच्छेापहरणेषु (१०।१८२), वास उपसेवायाम् (१०।२७० ) वासयति ।। ६७५ ।।
२५
१. 'वहः' पाठा० । तच्चासाधु, उत्तरत्र वहशब्दस्य निर्देशात् ।
२. 'स्कन्धदेश: ' पाठा० ।
३. '० छेदोपसंहरणेषु' पाठा० ।