________________
१६७
भ्वादिगणः (१) ७२८. विषा दीप्तौ । त्वेषते, त्वेषति । त्विट् । नप्तृनेष्ट्र (उ० ६५) इति त्वष्टा अर्कः । अवपूर्वो दाननिरसनयोश्चेति दुर्गः। निरसनमपाकरणम । अवत्वेषति गां द्विजाय, अवत्वेषते मलम् ।६७१। ___७२६. यज देवपूजासंगतिकरणदानेषु । यजते, यजति । वचिस्वपियजादीनां किति (६।१ १५) सम्प्रसारणम् - इज्यते, इष्टः, इष्टिः। ५ लियभ्यासस्योभयेषाम् ।६।१।१७) इयाज। यजयाचरुच (७।३। ६६ इति कुत्वं नास्ति -याज्यम् । प्रयाजानुयाजौ यज्ञाङ्गे (७।३। ६२) अन्यत्र प्रयागः, अनुयागः । करणे यजः (३।२।८५) णिनिःअग्निष्टोमयाजी । सुयजोङ र्वनिप् (३।२।१०३)- यज्वा पूयजोः शानन् (३।२।१२८) -- यजमानः । ऋतौ यजति (द्र. ३।२।५६) १० - ऋत्विक् । यजजपदशां यङः (३।२।१६६) इत्यूकः यायजूकः । यजयाच (३।२।६०) इति नङ-यज्ञः । वजयजो वे क्यप् (३।३। १८) इज्या । उणादौ यष्टिः । प्रतिपृवपि (उ० २।११८) इत्युस्यजुः काठकम् ॥६७२।। __७३०. डवप बीजसन्तामे । बीजानां सन्तानः क्षेत्र विस्तारणम् । १५ वपते, वपति । [प्रणिवपते] प्रणिवपति (द्र० ८।४।१७) । उप्यते। वप्ता । उवाप, ऊपुः, ऊपे । उप्तः । प्रासुयुवपि (३।१।१८६) इति ण्यत् वाप्यः । उप्तिमम् । गृधिवपिभ्यां रन् (तु० उ० २।२७) वप्रः । अतिप्रवपि (उ० २।११८) इत्युस्- वपुः । वसिवपिवदिराजि (द० उ० ११५३) इतीज-वापिः । भिदादौ (गण० ३।३।१०४) २० वपा ।।६७३॥
७३१. वह प्रापणे। वहते, वहति । प्रणिवहते, प्रणिवहति (द्र० ८।४।१७) । उवाह, ऊहुः; ऊहे । सहिवहोरोदवर्णस्य (६ ३।११२) वोढा । अदिखादिनीवहीनाम् (१।४।५२ वा०) कर्म संज्ञा नास्तिवाहयति भारं चैत्रेण मैत्रः । वह्य करणम् ((३.१।१०२)। कों- २५
१. सूर्यः' पाठा० । २. वसेस्तिः (उ० ४।१७६) इति बाहुलकाद् यजेरपि ।
३. क्षीरस्वामी कठशाखाध्यायी प्रासीदिति संभाव्यत । सम्प्रति कश्मीरेष्वेव कठब्राह्मणा उपलभ्यन्ते।
४, 'टुवप् बीजतन्तुसन्ताने' इति काशकृत्स्नः (पृष्ठ ११६)।