SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १६६ क्षीरतरङ्गिण्यां ७२५. भज सेवायाम् । भजते भजति । तफलभज (६।४।१२२) इति भेजे, भेजुः । भजो ण्विः (३।२।६२) अर्धभाक् । सम्पृचानुरुध (३।२।१४२) इति घिनिण'–भागी । खलं भगः पदं च (द्र० काशिका ३।३।१२५) इति भगः । घञ् (द्र० ३।३।१८-१९) भागः । भक्तुम् । भक्तः । चुरादौ । भाज पृथक्कर्मणि (१०।२७२)-विभाजयति।९६८ ७२६. रन्ज रागे। रञ्जश्च (६।४।२६) इति शपि न लोपःरजते, रजति । कुषिरजोः प्राजां श्यन् परस्मैपदं च ( ३ । १ । ६०) रज्यति वस्त्रं स्वयमेव । घनि च भावकरणयोः (६।४।२७) न लोपः -रागः, अधिकरणे रङ्गः । रजेगौं मृगरमणे (६।४।२४ वा०) रज१०. यति मृगान्, नेह रञ्जयति नटः । रजनरजकरजःसु कित्त्वम् (तु० ६। ४।२४ वा०) शिल्पिन् वुन् नृतिखतिरञ्जिभ्यः (३।१।१।१४५ सू० वा०) रजकः । महारजनं कुसुम्भम् । गौरादौ (गण० ४।१।४१) रजनी। जनीजषक्नसुरजोऽमन्ताश्च (११५५४) इति मित्संज्ञा शासनादन्यत्राप्याहुर्यथा-राजर्षिकल्पो रजयन्। सम्पृच (३।२। १५ १४२)-रागी। पृषिरञ्जिभ्यां कित् (उ० ३।१११) इत्यतच्रजतम् ।।६६६॥ ७२७. शप प्राक्रोशे । प्राक्रोशो विरुद्धानुध्यानम् । वाचा शरीरस्पर्शने चानेकार्थत्वात् । शपते, शपति । शप उपलम्भने (१।३।२१ वा०) तङ, श्लाघलुस्थाशपां (१।४।३४) इति सम्प्रदानम् - शपते चैत्राय । शपति रिपु पुरोधाः । शीशपिरुहि (तु० उ०३।११३) इत्यथच्-- शपथः । शाशपिभ्यां ददनौ (उ० ४।६७) शब्दः। शपेबंश्च (उ० १११०५) इति कलः - शबलो वर्णः ।।६७०॥ १. आष्टाध्यायां घिनुण प्रत्ययः । २. अत्राह सायणः-'न्यासे तु अङित्यपि रङ्गेमित्त्वविधानाल्लिङ्गा२५ नलोप इति तरङ्गिणीपदमजयौँ' (पृष्ठ २०४) । अयं पाठो नोपलभ्यतेऽत्र तरङ्गिण्याम् । - ३. 'काञ्चनं कुसुम्भं च' पाठा ०। ४. अनुपलब्धमूलम् । ५. इतोऽग्रे 'शब्दनम्' इति क्वचिदधिकम् । शब्द धातुश्चुरादौ पठ्यते (१०।१६०) । ततोऽनायासेन 'शब्द' प्रातिपदिकं निष्पद्यते देवराजस्तु निघण्टु व्याख्याने (१।११।३२) शब्दनं शब्दः' इति क्षीरस्वामी । इत्युद्धृतवान् । इयं व्युत्पत्तिः क्षीरस्वामिना अमरकोशव्याख्याने (१।६।१) निर्दिष्टा ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy