________________
H
भ्वादिगणः (१) १११२ दाम्नी (३।२।१८२) इति ष्ट्रन् -मेढ़म्' । न्यङ क्वादौ (गण० ७।३।५३) मेघः ॥९६३।। . ७२०. कित निवासे रोगापनयने च । गुप्तिज (३।१।५) इत्युत्पत्तौ सन् -चिकित्सति । चकरात संशये च-विचिकित्सति । निवासे नास्ति केतति । केतनम् । संकेतः । केतुः । केतकी। चुरादौ केत । निश्रावणे (१०।२७७) संकेतयति ।।६६४।।
७२१. अनुदात्ता उदात्ततः ॥
७२२. दान अवखण्डने। इतो वहान्ता (१७३१) दशानिट उभयपदिनश्च । मान्वधदान्शान्भ्यो दीर्घश्चाभ्यासस्य (३।११६ इति
सन् दीदांसते, दीदांसति ।। ६६५।। ... ७२३. शान तेजने । शीशांसते शस्त्रम्, शीशांसति ।।६६६॥
७२४. डुपचष् पाके। सानुनासिकोऽकारः सर्वेषामुपलक्षणार्थः । उपदेशेऽजनुनासिक इत् (१।१।८ इतीत् संज्ञा यथा स्यात् । पचते, पचति । पक्तिमम् । षित्त्वात् (द्र० ३।३।१०४)अङ-पचा। स्थागापापचो भावे (३।३।६५) क्तिन-पक्तिः । पचो वः (८।२।५५) १५ पक्वम् । पचादौ (गण० ३।१।१३४) श्वपचः । अणपीष्यते-श्वपाकः मांसपाक: न्यङ क्वादिः (गण० ७।३।५३), तत्रैव निपातनात् कर्मकर्तरि उण्'- दूरेपाकुः फलेपाकुः । परिमाणे पचः (३।२।३३) खश् - द्रोणम्पचः । मितनखे च (३।२।३४) मितम्पचः, नखम्पचः । राजसूयसूर्य (३।१।११४) इति कृष्टपच्यः । अलङ्का (३।२।१२६) २० - इत्युत्पचिष्णुः । पचेलिमाः कर्मकर्तरि (द्र० काशिका ३।११६६) पचेलिमा माषाः । मांसस्य पचि युधजोः (द्र०. का० ६।१।१४४) लोपो वा- मांस्पाकः मांसपाक ; मांस्पचनम् मांसपचनम् ॥६६७॥
१. मेढ़:' पाठा० ।
२. तुलनाकार्या- 'यत्राचार्याः स्मरन्ति तत्रैव सूत्रकारेण तावद्विवक्षिताः २५. सर्वेऽनुनासिकाः पठिताः डुलभंस् प्राप्तौ इतिवत् । लेखकैस्तु संकीर्णा लिखिताः । पदमञ्जरी १।३।२ (भाग १, पृष्ठ २१४) ॥
३. 'उज्' पाठा०। ' ४. इतोऽग्रे 'कृपणः । प्रात्मनेपदे कि पचानः' इति क्वचिदधिकम् । अत्र अमरकोशो (३।११४८) द्रष्टव्यः । ५. 'मांस्पचनी, मांसपचनी पाठा० । .
....... ३०