________________
१६३
भ्वादिगणः (१) ७१३. त्यज हानौ । हानिस्त्यागः । त्यजति । त्याज्यम्-त्यजियज्योः कुत्वं नेष्टम् ॥९५७॥
७१४. षन्ज सङ्गे । दन्शसन्जस्वन्जां शपि (तु० ६।४।२५) नलोपः, उपसर्गात सुनोति (८।३।६५) इति षत्त्वम् व्यतिषजति । स्थादिब्वभ्यासे चाभ्यासस्य (८।३।६४) अभिषषञ्ज । जान्तनशां विभाषा । (६।४।३२) क्त्वि नलोप: सक्त्वा, सङक्त्वा । उत्सङ्गोऽङ्कः । प्रासङ्गः । निषङ्गस्तूणी । असिसञ्जिभ्यां क्थिन् (उ० ३।१५४) सक्थि ॥६५८।। ___७१५. दृशिर् प्रेक्षणे । पाघ्राध्मा (७।३।७८) इति पश्यादेशः - पश्यति । समो गम्यूछि (१।३।२६) इत्यत्र' दृशेश्च (१।३।२६ १० काशिका) इति तङ - संपश्यते। विभाषा सृजिदृशोः (७।२।६५) थलीट- ददर्शिथ, दद्रष्ठ । सृजिदृशोभल्यमकिति (६।१।५८) इत्यमागमः-द्रष्टा । स्यसिच्सीयुटतासिषु (६।४।६२) इति चिण्वदिट् च-दर्शिष्यते त्वया । इरितो वा (३।१।५७) इत्यङ, ऋदृशोऽङिः गुणः (७।४।१६)-प्रदर्शत, अद्राक्षीत्, न दृशः (३।१।४७) इति १५ क्सो नास्ति । ज्ञाश्रुस्मृदृशां सनः (१।३।५७) तङ–दिदृक्षते । चङि उऋत् (७.४।४७) वा-अददर्शत्, अदीदृशत्, । अभिवादिदशोरात्मनेपदे (१।४।५३ वा०) वा कर्तुः कर्मसंज्ञा-राजा दर्शयते भृत्यान्, भृत्यैर्वा । पाघ्राध्माधेड्दृशः शः (तु० ३।१।१३७) उत्पश्यः । असूर्यललाटयो शितपोः (३।२।३६) खश्–असूर्यम्पश्या राजदाराः। २० उग्रम्पश्येरम्मदपाणिन्धमाश्च (३।२।३७) । त्यदादिषु दृशोऽनालोचने कञ्च (३।२।६०) तादृक्, तादृशः । तादृक्षः(द्र० ३।२।६० काशिका)। समानान्ययोश्च (३।२।६० वा०) सदशः, अन्यादृशः । दशे क्वनिप (३।२।६४) पारदृश्वा । दर्शः, आदर्शः । अजिशिकम्यमि (उ० १॥ २७) इति पशुः। भाषायां शासियुधिदृषिविमृषिभ्यो युच् (३।३।१३० २५
१. यजेयेति कुत्वाभाव: 'यजयाच' ७।३।६६ इत्यनेनैव सिद्धः, त्यजेश्च 'ण्यति प्रतिषेधे त्यजेरुपसंख्यानम्' इति तत्रस्थेनैव वात्तिकेन ।
२. तूणी इषुधिः । द्र० अमर २१८८६ । ३. 'इति वर्तमाने' पाठा० ।