________________
१६२
क्षीरतरङ्गिण्यां
इत्यप् नमः । गोचरसंचर ( ३।३।११६ ) इति निगमो वेदादिः । सर्पति, अमृपत् । सर्पोऽचि । के (द्र० ३।१।१३५) स्पृपः । स्फायि (उ० २।१३) इति रक् - सृप्रश्चन्द्रमाः, सपा नाडी। अचिशुचि (उ० २।१०८) इतीस् – सर्पिः । ६५३-६५४॥
७११. यम उपरमे । उपरमो निवृत्तिः । इषुगमियमां छः (७।३। ७७) यच्छति । उपाद् यमः स्वकरणे (१।३।५६) तङ - स्वकरणं परिणयः - उपयच्छते कन्याम् । आङो यमहनः (१ । ३ । २८)
आयच्छते। समुदाभ्यो यमोऽग्रन्थे ( १ । ३ । ७५ ) संयच्छते। यमो गन्धने (१ । २ । २५) कित्त्वम् - उदायत । विभाषोपयमने (१।२।१६) उपायत, उपायंस्त । यमरमनमातां सुक् च (तु० ७।२। ७३) अयंसीत् । यंयम्यते (द्र० ७।४।८५)। यमोऽपरिवेषणे (१। ५५६) मित् नियमयति । वाचि यमो व्रते (३।२।४०) खच्, वाचंयमपुरन्दरौ (६।३।६६) । अच् (द्र० ४।१।१३४) यमः । नियतः ।
यतिः । नियतिः । न पादमि (१.३।८६) इति तङ -पायामयते । १५ यमः समुपनिविषु च (३।३।६३) इति वा घ-संयमः, संयामः,
उपयमः, उपयामः; नियमः, नियाम.; वियमः, वियामः । ष्ट्रन्. (द० उ० ८७६)यन्त्रम् । उदिदिति श्रीभोजः-यत्वा, यमित्वा ।।९५२॥
७१२. तप संतापे । तपति। निसस्तपतावनासेवने (८।३।१०२) षत्वम्-निष्टपति । उद्विभ्यां तपः (१।३।२७) तङ --उत्तपते, विल२० पते । स्वाङ्गकर्मकाच्च (११३२७ वा०) उत्तपते पृष्ठम् । तपस्तपः
कर्मकस्वैव (३.११८८) कर्तु: कर्मत्वम् तप्यते तपस्तापसः, तपोऽर्जयतीत्यर्थः । तपोऽनुतापे च (३।१।६५) इति न यक्चिणौ-अतप्त तपस्तापसः, अन्ववातप्त पापेन कर्मणा । नन्द्यादौ (गण०३।१।१३४)
तपनः सूर्यः । असूर्यललाटयो शितपोः (३।२।३६) खश् – ललाट२५ न्तपः । द्विषत्परयोस्तापे (३।२।३६) द्विषन्तपः, संज्ञायाम् (३।२।४६) परन्तपः । असुन (द० उ० ६।४६) तपः ॥९५६।।
१. भाष्यकारस्तु स्वकरणमात्र आह। २. 'स्र क' पाठा ० । 'सक्' इति काशिका।
३. द्र० पुरुषकारः, पृष्ट १०० । ४. परन्तपस्तु द्विषत्परयोस्तापे' (३।२।३६) इत्यनेनैव सिद्धयति । अत्र ३० कश्चित् पाठभ्र शो जातः । “द्विषन्तपः, परन्तपः । संज्ञायाम् ( ३।२।४६) शत्रु
तपः" इति युक्तः पाठः स्यात् ।