________________
भ्वादिगण: ( १ )
१५६
( ७|१|६४ ) इति नुम् - आलम्भ:, विलम्भनम् ' विभाषा चिण्णमुलोः ( ७ | १|६६) लाभ, अलम्भि, सोपसर्गान् नित्यमाहुः ( द्र० ७ १| ६९ काशिका०) व्यलम्भि । लाभलाभम् । लम्भंलम्भम् । उपसर्गात् खत्घञोः (७।२।६७) ईषल्लम्भः, सुप्रलम्भः । न सुदुर्थ्यां केवलाभ्याम् (७/१।६८) सुलभम्, दुर्लभम् । श्राङ यि ( ७।१।६५) - आलम्भ्यम् उपात् प्रशंसायाम् ( ७।१।६६ ) उपलम्भ्यम् । सनि मीमाघु ( ७|४| ५४) इति लिप्सते । लभते भोक्तुम् ( द्र० ३।४।६५) ।। २४६||
1
७०२. ष्वन्ज परिष्वङ्गे । दंशसन्जस्वन्जां शपि ( तु० ६।४।२५) इति न लोप:, उपसर्गात् सुनोति ( ८।३।६५ ) इति षत्वम् - परिष्वजते ।
1
१०
१. वस्तुतः सानुषङ्गा 'आरम्भ:, आरम्भणम् ; प्रलम्भ:, विलम्भनम्' इत्येव - मादयः प्रयोगा न रभलभघात्वोः किन्तर्हि सानुषङ्गयोर्धात्वन्तरयोः रम्भलम्भयोः । अनयोः धात्वन्तरे किं मानमिति चेद् ब्रूमः, यत्रानयोर्नुम् विधीयते तत्र नुमाभावस्यापि प्रयोगदर्शनात् । तद्यथा—
(क०) चरकसंहितायाम् ( चिकित्सा १९ / ४ ) ' आदिकाले यज्ञेषु पशवः समालभनीया बभूवुः, नालम्भाय प्रक्रियन्ते स्म इति वाक्ये लभलम्भयोः पृथक् पृथक् प्रयोगदर्शनात्, अर्थान्तरश्रवणाच्च ।
५
(घ) यवासस्य ( धमासा) इत्याख्यस्य दुरालभा दुरालम्भेति द्वे नाम्नी शालिग्रामनिघण्टौ । ग्रमरकोशस्य ( २२४१६४ ) क्षीरस्वामिनो व्याख्याऽपि
(ख) काशिकायाम् (७।१।६५ ) उद्धृते 'अग्निष्टोम श्रालभ्यः' इति श्रीतवाक्ये प्राप्तोऽपि नुम् न श्रूयते ।
(ग) काशकृत्स्नधातुपाठीयकन्नडटीकायां 'रभलभधात्वोः 'रभकः, रभः, रभमाणः, रभणीयम्, लभिः, लभनम्, लभक:, लभमानः' इत्यादिप्रयोगेषु नुमो- २० ऽदर्शनात् ( द्र० १।५६३, ५६४; पृष्ठ ९४) ।
द्रष्टव्या ।
तदेवं लभलम्भयोः पार्थक्येऽर्थान्तरे च सति 'ब्रह्मणे ब्राह्मणमालभते ' ( तै० ब्रा० ३।४।१ - १८ ) इत्यादिषु प्रालभते इत्यस्य नालम्भनार्थः, ग्रपि तु 'हृदयालभते' (पार० गृह्य १1८) इत्यादिवत् स्पर्शार्थ एव । वस्तुतस्तु लाघवमिच्छद्भिः पाणिन्यादिभिरांचायरेकमेव धातु पठित्वा द्विप्रकृतीनां शब्दानां साधुत्वमन्वाख्यातम् (अत्र निरुक्तस्य २।२ तद्यत्र स्वारादनन्तरान्तस्थान्तर्धातुर्भवतीत्यादिप्रकरणमनुसन्धेयम् ) ।
१५
२५
३०