________________
१५८
क्षीरतरङ्गिण्यां
६६७. तिज निशाने क्षमायाञ्च । निशानं तीक्ष्णीकरणम । तितक्षते कोपम् । क्षमायामूत्पत्तौ सन्विधेर (द्र० ३।११५) निशाने प्रत्ययान्तरं ज्ञाप्यते -तेजते । तेजः । तेजनम् । तेजनी । युजिरुचितिजा कुश्च (उ० १११४६) इति मक तिग्मम् । तिजेदीर्घश्च (उ० ३। १८) इति स्नः- तीक्ष्णः । चुरादौ (१०।१००) उत्तेजयति।।९४२॥
६६८. मान पूजायाम् । मान्बधदान्शान्भ्यः (३।११६) इत्युत्पत्तो विचारे सन् – मीमांसते । मीमांसा विचारणा । चुरादौ (१०।२३१) प्राधृषाद् वा (१०।२०१) इति मानयति, मानति । मानः । माननम् । नप्नेष्ट्र (उ० २। ६६) इति माता ॥६४३।।
६६६. बध बन्धने । मान्बध (३।१.६) इति जुगुप्सायां सन् - बीभ :सते । अन्यत्र-बाधते । बधकः । चुरादौ बध संयमने (१०।२४) बाधयति ।। ६४४॥ ___७००. रभ राभस्ये । राभस्य कार्योपक्रमः । संरभते, प्रारभते । सनि मोमाधु (७।४।५४) इतीण –आरिप्सते। पोरदुपधात् (३।१। १८) यत्-प्रारभ्यम् । रभेरशब्लिटोः (७।१।६३) नुम् -प्रारम्भः, प्रारम्भणम् । अच् (द्र० ३।१। १३४ वा० )-रम्भः, रम्भा । शकधृषज्ञा (३।४।६५) इति तुमुन् -प्रारभते भोक्तुम् । अत्यविचमि (उ० ३।११७) इत्यसच्-रभसो निर्विचारा प्रवृत्तिः ॥९४५॥
७०१. डुलभष' प्राप्तौ । लभते । लब्धिमम् (द्र० ३।३।८८; ४। ४।२०) उपलभा (द्र० ३।३।१०४) । बाहुलकाल लब्धिः । लभेश्च
१. 'तेजते' प्रत्युक्तः सायणेन (धा० पृ० १८८) । २. 'स्नः' इति युक्तः पाठः ।
३. हरदतः 'डुलभैष्' इति सानुनासिकपाळं मनुते । यदाह – 'यत्राचार्याः स्मरन्ति तत्रैव सूत्रकारेण तावद्विवक्षिताः सर्व सानुनासिकाः पठिताः डुलभैष २५ प्राप्तावितिवत् । पदमञ्जरी १।३।२॥ (भाग १, पृष्ठ २१४) ।
४. अत्र लिबिशेन भ्रान्त्या 'बहुलमेतन्निदर्शनम्' (१०।३२५) इत्यस्य संख्या निर्दिष्टा । अत्र पूर्वत्र (पृष्ठ १३७) निर्दिष्टा टिप्पणी (५) द्रष्टव्या।
५. अत्रापि लिबिशेन भ्रान्त्या काशिकायाः ३।३।६३ संख्या निदिष्टा । काशिकाकारस्तु लब्धिपदं 'क्तिनाबादिभ्यः' इति वाति केन साधयति, क्षीर३० स्वामी तु बहुलग्रहणात् क्तिनमाह । : .