________________
१५६
क्षीरतरङ्गिण्यां
पवते । पविता। स्मिपूङ रञ्ज्वशां सनि (७।२।७४) इतीट, प्रोः पुयण्ज्यपरे(७।४।८०) इत्योरभ्यासस्येत्-पिपविषते । विपूयविनीय (३। ११११७) इति विपूयो मुजे साधुः । न भाभूपूकमि (८।४।३४) इति कृति णत्वं नास्ति-प्रपवनीयम् । पूङः कत्वा च (१।२।२२) इति क्त्वानिष्ठयोः - पूतः, पवितः; पूत्वा, पवित्वा । पूयजोः शानन् (३।२। १२८) पवमानः । ल्युः (द्र० ३।१११३४) पवनः । निरभ्योः पूल्वोः (३।३।२८) निष्पावः । हलसूकरयोः पुवः । (३।२।१८३) बन्पोत्रम् । कर्तरि चषिदेवतयोः (३।२।१८६) इत्रन् पवित्रम् । नप्तृ. नेष्टुत्वष्ट्र (उ० २।६५) इति पोता ऋत्विक् । हसिमृग्रिण्वामि (उ० ३।८६) इति तन्–पोतः शावको, नौभेदश्च । छापूङ्खडिभ्यो गक् (तु० उ० १११२४)पूगः क्रमुकः, संघः । पुवो ह्रस्वश्च (उ० ४।१६५) इति क्त्रः-पुत्रः । पूडो यण गुड्-स्वश्च (दश० उ० ८।१६ कपाठः) -पुण्यम् । इ:(तु०उ०४।१३८)पविः । क्रयादौ पूञ् (६।११) पुनीते, पुनाति ॥६३७॥ __६९२. मूङ् बन्धने। मवते । प्रोः पुयण्ज्यपरे (७।४।८०) मिमावयिषति । मड्योलॊपश्च (तु० दश० उ० ६।१७)' इत्युषन्- तेजसावर्तनी मूषा (अमर० २।१०।३३) । तनिमभ्यां किच्च' (दश० उ० ६।८)- मूतः पुटबन्धः । जीवनस्य मूतः-जीमूतः, पृषोदरादिः (द्र०६।३।१०६) ॥३८॥
६६३. डीङ् विहायसां गतौ । डयते । इण् निष्ठायाम्-डयितः, कित्त्वं नेष्टम् । दिवादी डीङ गतौ (४।२५) डीयते, डीनः ॥६३६॥
१. सूत्रमिदं दशपाद्यामेवोपलभ्यते । तत्र 'मूवोर्लोपश्च' इति पाटः । स एव च शुद्धः पाठः । क्षीरस्वामी दशपादीपाठं प्रायेणानुसरति। तत्रापि च क
संज्ञकहस्तलेखस्थं पाठम् । अत्र क्षी० त० २।२५ धातुसूत्रव्याख्यायां यूष-पद२५ सिद्धिर्द्रष्टव्या। .
२. लिबिशेन 'मूङयोर्लोपश्च' 'तनिमुड्म्यां किच्च' इत्यनयोराकरस्थाननिर्देशो नाकारि। ___३. 'विहायसि' पाठा० । 'विहायसानां विहगानां गतौ' इति पुरुषकार: (पृष्ठ ३०)। . ४. उद्धृतमिदं पुरुषकारे (पृष्ठ ३०) ।