________________
भ्वादिगण: ( १ )
१५५
माया | चन्द्रे मो ङित् ' ( तु० उ०४।२२८) इत्यसुन् - चन्द्रमाः । प्रदादौ मामाने ( २।५५) माति । ह्वादौ माङ् माने ( ३६ ) मिमीते । ३२ ||
1.
६८६. देङ् ं रक्षणे । दयते । दयतेदिगि लिटि ( ७४६ ) - अवदिग्ये । मनिन् ( दश० उं० ६ ७३) दामा । दाण् दाने ( ११६६२ ) यच्छति । दैप् शोधने (१।६५६ ) दायति मुखम् । प्रदादौ दाप् लवने ५ (२०५२) दाति व्रीहीन् । ह्लादौ डुदाञ, दाने ( ३६ ) दत्ते, ददाति । दिवादौ दो प्रवखण्डने ( ४ ३८) द्यति ॥९३३॥
१०
६८७. श्यैङ् गतौ । श्यायते । श्याद्व्यध ( ३ | १|१४१ ) इति णः, श्याग्रहणं सोपसर्गार्थम् - प्रतिश्यायः, अवश्यायः । द्रवमूर्तिस्पर्शयोः श्यः (६।१।२४) सम्प्रसारणम् शीनं घृतम्, श्योऽस्पर्शे ( ८।४।४७ ) नत्वम्, नेह - शीतो वायुः । प्रतेश्च ( ६।१।२५) स्फेयकृतस्य पिता प्रतिशीनः । । विभाषाऽभ्यवपूर्वस्य ( ६।१।२६ ) अभिशीनः, ग्रभिश्यानः; श्रवशीनः, अवश्यानः । इषियुधि ( उ० १।१४५ ) इति मक् – श्यामः, श्यामा, श्यामाकः । श्यास्त्याहृञ ( उ० २।४६ ) इतीनच् - श्येनः । हृश्याभ्यामितन् ( उ० ३।६३ ) श्येतः ॥ ६३४।।
६८८. प्यैङ् वृद्धौ । आप्यायते । छित्वरादौ ( द्र० उ० ३।१) पीवरः । ध्याप्योः सम्प्रसारणं च ( उ० ४।११५ ) इति क्वनिप् - पीवा ॥ ९३५ ॥
६८६. त्रैङ् पालने । चौरात् त्रायते ( द्र० १।४।२५) । नुदविदोत्रा (८२५६ ) इति नत्वं वा त्राणः, त्रातः । नित्यम् -
-
देवत्रातो गलो ग्राह इतियोगे च सद्विधिः ।
मिथस्तेन विभाष्यन्ते गवाक्षः संशितव्रतः । [महाभाष्य ७ । ४ । ४१]
॥९३६॥
१५
२०
६६०. अनुदात्ताः ॥
२५
६६१. पूङ् पवने । पवनं नीरजीकरणम् । इतश्चत्वारः सेटः ।
१. ' डित्' इति प्रायेणोणादौ पाठः । श्वेतवनवासिवृत्तौ क्वचिद् हस्तलेख 'चन्द्रे मो डित्' इत्येव उपलभ्यते । अपरस्मिन् 'चन्द्र े मो डिनिच्च' इत्येवं पाठान्तरं दृश्यते ( द्र० उ०वृ० पृष्ठ २०६ ) । महाभाष्य १ । १ । १ ।
२. ‘दैङ् त्रैङ् पालने । दायते, त्रायते' इति काशकृत्स्नधातुपाठस्य कन्नडटीकायाम् (पृष्ठε३) । तथैव कातन्त्रीयधातुपाठेऽपि ( अस्मद्धस्तलेख पृष्ठ ८ ) ।
३०