________________
१४६
क्षीरतरङ्गिण्यां
सारः, अतीसारः, विसारः, सारम् । प्रजने सर्तेः (३।३।७१) अप्उपसरो गवाम् । घ(द्र०३।३।१८,१६)आसारः,संसारः । बाहुलकाद्' विसरप्रसरौ । वुन् (द्र० ३.१।१४६) सरकः । सर्तेणिद् (दश० उ० ६।३०) इति थन् -- सार्थः । सरतेरसुन् (द्र० दश० उ०६।१०१) अप्सु सृता अप्सरसः । हृसृरुहियुषिभ्य इतिः (उ० १।६७)-सरित् । प्रसुन् । (दश० उ० ६।४६)-सरः । अतिसृधधमि (उ० २।१०२) सरणिः । सर्तेरटिः (उ० १११३४) सरट । शकादिभ्योऽटन् (उ० ४।८१) सरट: कृकलासः । सर्तेरयुः (उ० ३।२२) सरयुः, सरयूनदी। सर्तरपः षुक् च (उ० ३।१४१) सर्षपः । अण्डन्कृसृ (उ० १११२६) इति सरण्ड. । सर्तेनुर्क च (द० उ० ३।४२) इतीका -सृणीका लाला । जनिदाच्युसृ (दश० उ० १०।१५) इति निक् - सृणिरङ कुशः । सर्तेणित् (दश० उ० ११४३) सारथिः । ह्वादौ ऋ सू गतौ (३।१७) ससति । चुरादौ (१०।२५५ दुर्गमते) सारयति । युच् (द्र० ३।३।१०७) सारणा तन्त्रीयोजना । ल्युट् (द्र० ३।३। ११७) सारणी सेककुल्या ॥९०४॥ ___ ६६८. ऋ गतिप्रापणयोः। ऋछादेशः (द्र० ७।३।७८) ऋच्छति । समो गम्युछिपछिस्वरयति (१।३।२६ काशिका) इत्यात्मनेपदम् - समृच्छते । गुणोतिसंयोगायोः (७।४।२६)अर्यते । सूचिसूत्रिमत्र्यटयर्त्यशूर्णोतीनाम् (३।१।२२ वा०) यङ-अरार्यते । उपसर्गादति धातौ (६।१।६१) वृद्धिः उपार्छति । थलि - इडयतिव्ययतीनाम् (७।२।६६) आरिथ । सतिशास्यतिभ्यश्च (३।११५६) इत्यङ - पारत् । स्मिपूज्व शां सनि (७।२।७४) इतीट - अरिरिषति । अतिहीन्लीरी (७।३।३६) इति पुक अर्पयति, अर्पितः ।
अर्यः स्वामिवैश्ययोः (३।१।१०३), आर्योऽन्यः । अचि (द्र० ३।१। २५ १३४) अरा। भिदादौ (गण० ३।३।१०४) पारा शस्त्र्याम् । ऋण• माधमर्ये (८।२।६०), अन्यत्र ऋतम् । अतिलघूसूखन (३।२।१८४)
इतीत्रः अरित्रं केनिपातकः (अमरकोष १।१०।१३) अर्तेश्चतुः
२०
१. अत्र लिबिशेनापरिज्ञाय न कापि सूत्रसंख्या निर्दिष्टा । अत्र पूर्वपृष्ठस्था टि० ६ द्रष्टव्या।
२. ० रडिः' पाठा० । ३०. ३. पञ्चपाद्यां (४।१०४) क्रिन्प्रत्ययः, दशपाद्यां तु निक् ।