________________
।
भ्वादिगणः (१)
१४७ १९) द्वारम्' । द्वारयतेरुणादिक्विन् द्वाः [द्वारौ] द्वारः ॥६०३॥ __६६७. सृ गतौ। सरति, प्रसरति । पाघ्राध्मा (७।३।७८) इति वेगितयां गतौ धावादेशः - धावति । कृसभव (७।२।१३) इति नेटससृव । सतिशास्त्यतिभ्यश्च (३।११५६) लुङि अङ -असरत् । उपसर्या काल्या प्रजने (३।१।१०४) । राजसूयसूर्य (३।१।११४) इति सूर्यः । पुसल्वः समभिहारे वुन् (३।१।१४६) सरकः । सर्तेर्वः सरति ससति वा - सर्वः । ण्वुल अभिसारिका । पुरोऽग्रतोऽग्रेषु सर्तेः (३। २।१८) टः- पुरःसरः, अग्रतःसरः, अग्रेसरः । पूर्वे कर्तरि (३।२।१६) पूर्वसरः । सम्पृचा (३।२।१४२) इति परिसारी। बाहुलकाद् विसारी। प्रे लपस (३।२।१४५) प्रसारी। उत्प्रतिभ्यामाङि सर्तः (३।२।७८ काशिका)- उदासारी. प्रत्यासारी । जुचक्रम्य (३।२। १५०) इति युच् सरणः । सघस्यदः क्मरच् (३।२।१६०) समरः । सृ स्थिरे, व्याधिमत्स्यबलेषु च (३।३।१७ सू० वा०) घञ्- चन्दन
वा तत्र बत्वपाठः स्याद् इति तु न शक्यते वक्तुम्, वैदिकरक्षरवर्णस्वरादीनां परम्परया सुरक्षितत्वात् । न चर्वेदीयास्तद्देशजा यत्र दन्त्योष्ठयस्थाने ओष्ठ्यो १५ बकार उच्चार्यते । निरुक्तकारस्तु द्वार-पदम्- 'द्वारो जवतेर्वा द्रवतेर्वा वारयतेर्वा' (८1) इति बहुधा निरवोचत् । तत्तु 'व' धात्वस्वीकारे द्रष्टव्यम् । प्रायेण हि नरुक्ता वैयाकरणाश्च स्वकाले स्वसम्प्रदाये वा प्रसिद्धान् धातूनुपादायैव पदनिर्वचनानि ब्रुवते, न मूलधातुनिदर्शनाय प्रयतन्ते ।
१. पूर्वपृष्ठस्था (१४६) टि० २ द्रष्टव्या। .. २. उणादौ क्विन् ‘जशस्त जागृभ्यः क्विन्' (उ० ४।५४) इत्येकत्रव पठ्यते । तत्र च इकारो नानुबन्धः । तस्मादत्र 'क्विप्' इति युक्तः पाठो द्रष्टव्यः । 'द्वाः इति ण्यन्तात् क्विपि' इति सायणवचनमप्यत्रानुकलम् (द्र० धा० वृ० पृष्ठ ११७)। ३. अत्र ७।३।७८ सूत्रस्था काशिकावृत्तिरनुसंधेया ।
४. उणादौ (१।१५२) वन्प्रत्ययान्तो निपात्यते । ५. 'संज्ञायां पूर्वे' पाठा०।
६. संपृचादि सूत्रे (३।२।१४२) परिपूर्वात् सरतेपिनुविधानाद् विपूर्वात् 'कृत्यल्युटो बहुलम्' (३।३।१३३) इति वचनात् घिनुण द्रष्टव्य इति भावः । लिबिशमहोदयेनैतदपरिज्ञायात्र 'बहुलमेत निदर्शनम्' इति धातुसूत्रस्य (१०॥ ३२५) संख्या निर्दिष्टा।
३०
.