________________
क्षीरतरङ्गिण्यां उपसर्गात् तः (७।४।४७) प्रत्तम्' । दस्ति (६।३।१२४) इति दीर्घः -वीत्तम् । दाधेसिशदसदो रुः . (३।२।१५६)-दानशीलो दारुः॥८६॥
__ ६६३. ब कौटिल्ये । हरति । छित्वरादौ (द्र० उ० ३।१) उप५ ह्वरः ।।६००॥
६६४. स्वृ शब्दोपतापयोः । स्वरति । समो गम्यूछि (१।३।२६) तङ-संस्वरते । स्वरतिसूति (७।२।४४) इति वेट-स्वरिता स्वर्ता । सनीवन्तर्ध (७ । २ । ४६) इति सिस्वरिषति सुस्वर्षति । स्वरः ।
शस्वृस्निहि (उ० १।११) इत्युः - स्वरुवज्रम् । स्वारयति । चुरादौ १० स्वर आक्षेपे (१०।२५१) अदन्तः [स्वरयति] ॥६०१॥
६६५. स्मृ चिन्तायाम् । स्मरति । ज्ञाश्रुस्मदृशां सनः (१।३।५७) इत्यात्मनेपदम् सुस्मूर्षते । स्म प्राध्याने (११५४४) मित्-स्मरयति । अत् स्मृदृत्वर (७।४।६५) इति असस्मरत् । स्मरः ।
स्मृतिः ॥६०२।। १५ ६६६. व वरणे' । वरणं स्थगनम् । द्वरति । घञ् (द्र० ३।३।
... १. सूत्र उपसर्गग्रहणे सत्यपि अनुपसर्गादपि तकारादेशो भवति । यथादेवत्तम्' (ऋ० १॥३७॥४॥ ८।३२।२७) । देवेन देवैर्वा दत्तं देवत्तम् । तत्पुरुषे तुल्यार्थतृतीया (अष्टा० ६।२।२) इति पूर्वपदप्रकृतिस्वरेण मध्योदात्तं पदम् ।
२. काशकृत्स्नचन्द्रजैनशाकटायनीयेषु धातुपाठेषु क्षीरमैत्रेयदीक्षितादिकृतेषु २० धातुव्याख्यानेषु, च अविगीतत्वेन 'ढ' पठ्यते (अनादरे-मैत्रेयः, संवरणे
दीक्षितः) । सत्यप्येवं सायणो धातुवृत्तौ (पृष्ठ ११७) 'क्वचित् पठ्यते' इत्याह । हस्तलेखेषु प्रायेण 'वृ संवरणे' पाठ उपलभ्यते । वस्तुतस्तूभावपि स्वतन्त्री धातू । 'ढ' धातो: 'द्वाः, द्वारः' इत्यादयः सिध्यन्ति, 'वृ' धातोश्च 'वा:, वारः'
इत्यादयो द्वारपर्यायाः। आसीच्च वार-शब्दस्य द्वारार्थे पुरा प्रयोगो लाटदेशे २५ (सौराष्ट्रतो नीचः) (द्र० तन्त्रवात्तिक १।३।२२) । अस्यैव वारशब्दस्य स्त्री
लिङ्ग 'वारी' पदं (बारी वा) गुर्जरबाहीकराजस्थानीयभाषासु सम्प्रति गवाक्षार्थे प्रयुज्यते (अत्र ह्रस्वार्थे स्त्रीप्रत्ययः । यथा-घट-घटी) । नीचीनबारं (ऋ० ५।८५॥३) जिह्मबारं ऋ० १।११६।६॥ ८॥४०॥५) इत्यादिषु प्रयुज्यमान प्रोष्ट्यादिबारशब्दोऽप्येतदर्थक एव । तदर्थं 'बृ' धातुरूह्यः । प्रामादिको