________________
१६
भ्वादिगणः (१)
१४५
आस्था, व्यवस्था । प्रष्ठोऽनगामिनि (८।३।६२) साधुः। सुपि स्थः (३।२।४) इति कः-समस्थः । योगविभागाद् भावेऽपीष्यते-पाखूत्थो वर्तते, अग्न्युत्त्थो वर्तते । अम्बाम्बगोभूमि(८।३।६७) इति षत्वम् -अम्बष्ठः, आम्बष्ठः, गोष्ठः, भूमिष्ठः । यतिस्यति (७।४।४०) इतीत्वम्-स्थितः । गत्यर्थाकर्मक (३।४।७२) इति क्तः-उपस्थितो ५ गुरुं चैत्रः । ग्लाजिस्थश्च क्स्नुः' (३।२।१३६) स्थास्नुः । लषपतपद (३।२।१५४) इत्युक - स्थायुकः। स्थेशभास (३।२।१७५) इति वरच -स्थावरः। घार्थ कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् (३।३। ५८ वा०) । प्रस्थः । स्थागापापचो भावे (३।३।६५)क्तिन् -स्थितिः। अजिरशिशिर (उ० १।५४) इति स्थिरस्थविरौ । स्थाचतिमृजेर् (उ० १।११६) इति स्थाली । सव्ये स्थश्छन्दसि (उ० २ १०२) इति ऋन् - सव्येष्ठा सारथिः, स्थास्थिन्स्थणाम् (८।३।६७ तु० वा०) इति षत्वम् । परमे स्थः किच्च' इतीन्- परमेष्ठी ब्रह्मा । स्थो णुः (उ० ३।३७) स्थाणुः । स्थः स्तोऽम्बजबको च (तु० उ० ४।६६) स्तम्बः, स्तबकः । स्थायी भविष्यति गम्यादयः (३।३।३) प्रस्थायी। स्थूणा, १५ स्थूरा जङ्घालोहपुत्तलिका ।।८६७॥
६६१. म्ना अभ्यासे । अभ्यासः पारम्पर्येण वृत्तिः । म्नो मनः (द्र० ७।३।७८)-आमनति । आम्नायः । नामन्सीमन् (उ०४।१५१) इति नाम ॥१८॥
६६२. दाण् दाने। णकारो दाणश्च सा चेद् (१।३।५५) २० इत्यर्थः । दाणो यच्छ (द्र० ७।३।७८)-विप्राय यच्छति । दाणश्च सा चेच्चतुर्थ्यर्थ (१।३।५५) इति तङ - दास्या सम्प्रयच्छते । घुकार्यम्-दीयते (द्र० ६।४।६६), सिज्लुक् (२।४।७७) अदात् । दायादो मूलविभुजादित्वात् (द्र० ३।२।५वा०), पातोऽनुपसर्गे कः (३।२।३) नास्ति' सोपसर्गत्वात् । प्रे दाज्ञः (३।२।६) अन्नप्रदः। २५ गोदः (द्र० ३।२।३) । दो दद्घोः (७ । ४ । ४६) दत्तः । अच
१. 'स्नुः' पाठा० ।
२. 'परमे स्थः कित्' इति (दश० उ० ६।६१)कपाठः । अमरटीकासर्वस्वकारोऽप्येवमेव पठति, भाग १ पृष्ठ १५,७५ । सरस्वतीकण्ठाभरणेऽपि (२। ११२६२)।
३. दायाद इत्यत्र आङ पूर्वत्वात् कस्य प्राप्ति स्तीत्यर्थः ।