________________
१४४
क्षीरतरङ्गिण्या
प्रकाशनस्थयाख्ययोश्च (११३।२३)-तिष्ठते कन्या छात्रेभ्यः, श्लाघह्न ङस्था (१।४।३४) इति सम्प्रदानसंज्ञा; संशय्य कर्णादिषु तिष्ठते यः (किरात ३।१४) । उदोऽनूर्वकर्मणि, उद ईहायाम् (१।३।२४ सू० वा०) गेह उत्तिष्ठते, मुक्तावुत्तिष्ठते; नेह-पीठादुत्तिष्ठति, ग्रामाच्छतमुत्तिष्ठति । उपान्मन्त्रकरणे (१।३।२५) ऐन्द्रया गार्हपत्यमुपतिष्ठते', आग्नेय्याऽऽग्नीध्रमुपतिष्ठते'; नेह-भर्तारमुपतिष्ठति यौवनेन, उपतस्थुः प्रकृतयः । अकर्मकाच्च (१।३।२६) भोजन उपतिष्ठते । उपाद् देवपूजासंगतकरणमित्रकरणपथिषु इति वाच्यम् (तु०
१३१२५ वा०)-प्रादित्यमुपतिष्ठते, गङ्गा यमुनामुपतिष्ठते, उपश्लिष्यतीत्यर्थः । रथिकानुपतिष्ठते, मित्रीकरोतीत्यर्थः । अयं पन्थाः स्रुघ्न मुपतिष्ठते, प्राप्नोत्यर्थः । वा लिप्सायाम् ((१।३।२५ वा०) भिक्षुतिनुपतिष्ठते, उपतिष्ठति वा । अधिशीस्थासां कर्म (१।४। ४६) गृहमधितिष्ठति । घुमास्था (६।४।६६) इतीत्त्वम् -स्थीयते । उपसर्गात् सुनोति (८।३।६५) इति षत्वम् - अधिष्ठास्यति, अधिकानम् । स्थादिष्वभ्यासेन चाभ्यासस्य (८।३।६४) अधितष्ठौ । उदः स्थास्तम्भोः पूर्वस्य (८।४।६१) इति सस्य थः, झरो झरि सवर्णे (८। ४।६५) इति तस्य लोपः-उत्थितः । गातिस्था (२।४७७) इति सिज्लुक - अभ्यष्ठात् । प्राक् सितादड्व्यवायेऽपि (८।३।६३) इति
षत्वम् । अनुवादे चरणानाम् , स्थेणोरद्यतन्यां च (२।४।३ सू० वा०) २० इति द्वन्द्व कत्वम् - प्रत्यष्ठात् कठकौथुमम् । स्थाध्वोरिच्च (१।२।
१७) उपास्थित । तिष्ठतेरित् (७।४।५) प्रतिष्ठिपत् । भव्यगेयप्रवचनीय (३।४।६८) इति कर्तरि उपस्थानीयश्चैत्रो गुरोः। ग्रहादौ (द्र० ३।१।१३४) स्थायी। प्रातश्चोपसर्गे (३।३।१०६) ऽङ -
१. मै० सं०३।२।४ ॥ २. मीमांसा शाबरभाष्ये ३।२।२१ उद्धृतः । ३. 'गंगा ...." त्यर्थः' क्वचिन्न । ४. इतोऽग्रे 'महामात्रानुपतिष्ठते' इत्यधिकम् । ५. 'श्र घ्नम्' मूले पाठः । द्वारकाम्' इति क्वचित् पाठा० । । ६. थस्येत्यर्थ, । , ७. इतोऽग्रे 'उत्तम्भितः' इत्यधिकम् ।। - ८. शाखानां मूलं चरणमुच्यते । तथा च भोजवर्मणः (१२ शताब्दयाः) ताम्रपत्रम् - "जमदग्निप्रवराय वाजसनेयचरणाय यजुर्वेदकण्वशाखाध्यायिने... . ......।" द्र० 'वैदिक वाङ्मय का इतिहास'' संस्क० २, पृष्ठ १७३,१७४ । ।