________________
भ्वादिगण: ( १ )
१४३
- नासिकन्धमः । नाडीमुष्ट्योश्च ( ३ |२| ३० ) नाडिन्धमः । उग्रम्पश्येरम्मदपाणिन्धमाश्च ( ३।२।३७) । ध्मो ध्मश्च ( तु० उ० २।३५ ) इति क्वन् - धमकः । श्रतिसृषृधमि ( उ० २।१०३ ) इत्यनिः - धमनिर्नाडी । बाहुलकाद्' धमादेशः । धमिः प्रकृत्यन्तरमित्येके । यथा धान्तो' धातुः पावकस्येव राशिः ॥ ८६६ ॥
I
६६०. ष्ठा गतिनिवृत्तौ । स्थस्तिष्ठादेशः ( द्र०७।३ । ७८ ) तिष्ठति । समवप्रविभ्यः स्थः ( १।३ २२ ) इत्यात्मनेपदम् सन्तिष्ठते, प्रवतिष्ठते, प्रतिष्ठते, वितिष्ठते । स्थाध्वोरिच्च (१।२।१७) समस्थित, समस्थिषाताम् । श्राङः स्थः प्रतिज्ञाने ( १।३।२२वा० ) उपसंख्यानम् - श्रस्ति सकारमातिष्ठते, शब्दं नित्यमातिष्ठते, नित्यत्वेन प्रतिजानीत इत्यर्थः ।
१. अत्र लिबिशमहोदयेन 'बहुलमन्यत्रापि' ( उ० २।३० ) इत्युणादिसूत्रम - परिज्ञाय 'उणादयो बहुलम् ( ३।३।१ ) इत्यस्य संख्या निर्दिष्टा | तुलनीया दशपाद्यणादिवृत्तिः - तथा ( बहुलं ) ध्मश्चान्यत्रापि धमादेशो भवति' (द० उ० ३।६ पृष्ठ १३२) । क्षीरस्वामी दशपाद्युणादिवृत्ति शब्दतोऽर्थतो वा बहुत्रोद्धरति ं (द्र० क्षीर० भूमिका ) ।
३. दशपाद्युणादिवृत्तौ (३।६ पृष्ठ १३२) क्वचित् 'धमः' पाट' क्वचिद् 'धाता' । तत्रापि 'धान्तः' इत्येव युक्तः पाठः । हुँमोणादिवृत्तावपि इत्येव (३३, पृष्ठ ९) पठ्यते ।
धान्तः '
४. दशपाद्युदिवृत्तौ क्वचित् 'धातुः ' नास्ति । ( ३।९, पृष्ठ १३२) । ५. 'काञ्चनस्यैव राशिः' इति दशपाद्युणादिवृत्तौ पाठः (३६ पृष्ठ १३२ ) ६. महाभाष्ये १।३। २२ आपिशलेरेतन्मतम् । यदाह् न्यासकारः -- 'सकारमात्रमस्ति धातुमापिशलिराचार्यः प्रतिजानीते । •स भुवि' इति स पठति ।
39
(भाग १ पृष्ठ २२६ ) ।
५
२. कस्येदं मतमिति न ज्ञायते । वस्तुतः पिबजिघ्रवमादीनि प्रकृत्यन्तराण्येवेत्युक्तम् । तथा च धमेरार्धधातुके स्वयमेव ग्रन्थकृता प्रयोग उदाहृतः । एवं 'विधमिष्यामि जीभूतान्' इति (रामा० सुन्दर ६७।१२), 'धम्यमानः ' ( महा० कर्ण ० ८८ ) 'विधम्य' ( तत्रैव १४ | ३६ ) इत्यादौ प्रयुज्यते । 'अतिसृधम्यमि' (उ० २।१०३) इत्युणादिसूत्रे 'धमि:' प्रकृत्यन्तरत्वेनोपादीयते । अस्य २० 'वृत्ती 'धमति प्रापयति' इत्युक्तं दयानन्दसरस्वतीस्वामिना । अत्र पूर्वधातुस्था टिप्पण्यपि द्रष्टव्या ।
.....
१५
२५