________________
१४०
- क्षीरतरङ्गिण्यां
(६।१।२३) इति सम्प्रसारणम्, प्रस्त्योऽन्यतरस्याम् (८।२।५४) इति वा निष्ठानत्वम्-प्रस्तीतः प्रस्तीमः । श्यास्त्या (उ० २।४६) इतीनच् -स्त्येनः । स्तेनयतेः (१०।२७६) स्तेनः । स्त्यातेडूट (उ०४।१६५) -स्त्री ॥८८०,८८१॥
६५०. खै खदने' । खायति । ल्युटि खानम् पाहुः ॥८८२॥
६५१. क्षै जै सै क्षये । क्षायति । निष्ठायां क्षायो मः (८।२।५३) क्षामः । जायति । जाता। सायति । साता। सायात्-स्यतेग्रहणाद् एत्वं न । असासीत्-स्यतेर्ग्रहणाद् विभाषा घ्राधेट (२।४।७८) इति सिज्लुक नास्ति ॥८८३-८८५॥ ___६५२. कै गै शब्दे । कायति, गायति । एतौ शब्दविशेष रूढौ । . इण्भीकापा (उ० ३।४३) इति कन्-काकः । अगासीत्, इणादेशस्य तु गातिस्था (२।४।७७) इति सिज्लुक ई-अगात् । भव्यगेय (३।४। ६८) इति गेयः कर्तरि साधुः । गस्थकन् (३।१।१४६)-गाथकः । प्युट च (३।१११४७) गायनः । गापोष्टक (३।२।८) सामग उद्गाता । कमिमनिजनि (उ० ११७३) इति तुन् - गातुः । उषिकुषिगा (उ० २।४) इति थन्- गाथा । गश्चोदि (उ० २।१०) इति थक्
इति सत्वाभाव मेवोदाहृतम् (पृष्ठ ५१) । शाकटायनोऽप्येवमेव । पुरुषकारस्तु मतमिदं स्मृत्वा निराचकार (पृष्ठ १६) । सायणोऽपि तथैव प्रतिपेदे (धा० वृ० पृष्ठ १६८).।
१. खदनं स्थैर्य हिंसा च इति सायणः (धा० वृ० पृष्ठ १६८)। काशकृत्स्नीयधातुपाठे 'खे खादने' इति पठ्यते, 'भक्षणार्थत्वं च' तट्टीकायां व्याख्यायते (पृष्ठ ७०)। ____२. काशकृत्स्नधातुपाठीयकन्नडटीकायां 'खानम्' इत्युदाह्रियते (पृष्ठ ५२) । वाक्यमिदं क्वचिन्न ।
३. घुमास्था (६।४।६६) इति सूत्रे स्यतेस्रहणाद् एलिङि' (६।४।६७) इत्येवं नेति भावः ।... ४. स्मृतमिदं धातुवृत्तौ (पृष्ठ १६६) ।
५. कायते: शब्दविशेषत्वद्योतनायव तिडन्तमध्ये काकपदनिर्वचनमुक्तम् । ६. गापोर्ग्रहण इपिबत्योर्ग्रहणम् (२।४।७७ वा०) इति वचनात् ।
२५