________________
१३८
- क्षीरतरङ्गिण्यां (३।३।१२४) । सत्सूद्विष. (३।२।६१) इति क्विप्-ग्रामणीः । दाम्नीशस (३।२।१८२) इति ष्टन-नेत्रम् । रक (द्र० उ० २०१३) - नीरम् । नप्तृनेष्ट्र (उ० २१९६) इति नेष्टा ऋत्विक् । हनिकुषि (उ० २।२) इति क्थन्-सुनीथः । नयडिच्च (उ० २।१०१) इति ऋः-ना नरौ नरः । पानीविषिभ्यः पः (उ० ३।२३) नीपः । नियो मिः (उ० ४।४३)-नेमिः ॥८७१॥
६४१. धेट पाने' । टकार स्तनन्धयीत्यादौ ङीबर्थः (द्र० काशिका २।३।२६) । धयति । विभाषा धेश्व्योः (३।११४६) चङ -अदधत्, अधासीत् । विभाषा घ्राधेट्शा (२।४।७८) इति सिज्लुक् -अधात् । पाघ्रा (३।१।१३७) इति शः-उद्धयः । नासिकास्तनयो- '
धेिटोः (३।२।२६) खश् – स्तनन्धयः । नाडीमुष्ट्योश्च (३।२। . ३०) मुष्टिन्धयः । दाधेसिशदशदो रुः (३।२।१५६) धारुर्गाः । धः
कर्मणि ष्ट्रन् (३।२।१८१)-धात्री। धेट इच्च (उ० ३।३४)
धेनुः । ध्यायतेस्तु (१।६४७) धीः, क्ते (६।४।६६) धीतः ॥८७२।। १५६४२. ग्लै हर्षक्षये । हर्षक्षयोंऽत्र धात्वपचयः,५ ग्लायति । वान्यस्य
संयोगादेः (६।४।६८) इति लिङि एत्वम्-ग्लेयात्, ग्लायात् । ग्लास्नावनुवमां च (११५५६) इति वा मित्त्वम् - ग्लपयति, ग्लापयति । संयोगादेरातो धातोर्यण्वतः (८।२।४३)निष्ठानत्वम्-ग्लानः । ग्ला
जिस्थश्च क्स्नुः (३।२.१३९)-ग्लास्नुः । ग्लानुदिभ्यां डौ (उ० २। २० ६४)-ग्लौश्चन्द्रः । ग्लाज्याहाभ्यो निः (३।३।९५ वा०) ग्लानिः । शकधृषज्ञाग्ला (३।४।६५) इति तुमुन्-ग्लायति भोक्तुम् ।।८७३॥
६४३. म्लै गात्रविनामे । विनामः कान्तिक्षयः । म्लायति । म्लेयात्, म्लायात् । म्लानः; बाहुलकान् म्लानिः ।।८७४।।
६४४. द्य न्यङ्गविधाने । न्यङ्ग कुत्सिताङ्गम् । द्यायति ॥८७५॥ . १. 'धयत्यादयोऽनुदात्ता उदात्ततः' इति धातुवृत्तिः (पृष्ठ १८४) । तत्रोदात्तत्त्वं सति सम्भवे ज्ञेयम्। २. स्मृतं धातुवृत्तौ (पृष्ठ १६६) ।
३. अपपाठोऽयम् । 'धारुर्गा वत्सः' इत्वेवं पाठेन भाव्यम् । ४. 'धीतम्' पाठा० ।
५. 'वैराद्यपचये' पाठा० । ६. कृत्यल्युटो बहुलम् (३।३।११३) इति बहुलवचनात् ।
७. 'न्यङ्गे' पाठान्तरम् । 'न्यङ्गविमान' इति क्षीरस्वामी (धा० वृ० पृष्ठ ३० १६७) । चैं न्यङ्करणे । कुत्सितमङ्गं न्यङ्गम् इति हेमचन्द्रः (धातु० १।२६)।