________________
भ्वादिगण: ( १ )
१३७
कलशादिः, कृकः, कर्कः = सितः, चक्रम्, करण्डः, कर्म, करम्भः,
कृसरः ।। ८७०।।
"
६४०. णीञ प्रापणे । प्रापणमासादनम् । नयते, नयति । प्रणेता । संमानन (१।३।३६ ) इत्यात्मनेपदम् - नयते चार्वी' लोकायते । कर्तृ - स्थेचाशरीरे कर्मणि (१।३।३७) क्रोधं विनयति । प्रदिखादिनी - वहीनां प्रतिषेधाद्' ( द्र० १।४ । ५२ वा० ) नाययति भारं ग्रामं चैत्रेण । विपूयविनीय ( ३|१|१११ ) इति विनीयः कल्के साधुः । श्रानाय्योऽनित्ये ( ३|१|१२७) श्रानाय्यो दक्षिणाग्निः प्रानाय्यो गोधुक् । प्रणाय्योऽसम्म (३|१|१२८ ) - प्रणाय्यायान्तेवासिने ब्रह्म ब्रूयात् ( तु० छा० उ० ३।११।५ ) असम्मत संसारायेत्यर्थः । पाय्यसान्नाय्य ( ३।१।१२६ ) इति सान्नाय्यं हविः । दुन्योरनुपसर्गे ( ३|१| १४२ ) इति कर्तरि णः- :- नायः । श्रिणीभुवोऽनुपसर्गे ( ३।३।२५ ) घञ् - नायः । बाहुलकाद्" नयः । श्रवोदोनियः ( ३।३।२३ ) - श्रवनायः, उन्नायः । परन्योनणोद्यताषयोः ( ३ | ३|३७ ) - परिणायः । जालमानायः
१८
-
प्रतीयते यत् पतञ्जलेः प्रागेवास्य धातोः तनादिषु प्रेक्षपो बभूव । एतत् सर्वमवबुध्य दीर्घदर्शिना स्वामिदयानन्देन 'अवरुद्रमदीमहि' (यजु: ० ३।५८ ) इति मन्त्रव्याख्यान उक्तम् — “डुकृञ् करणे इत्यस्य भ्वादिगणान्तर्गतपाठात् शब्विकरणोऽत्र गृह्यते, तनादिभिः सह पाठादुविकरणोऽपि ।" अत्र तनादिभि: सहपाठादित्यस्य 'तनादिकृञ्भ्य उ:' इति सूत्रे तनादिना कृञः सहपाठाद् इत्यर्थो ज्ञेयः । अत्र आगामिनी 'डुकृञ् करणे' (८।११) इत्यत्र लिखिता टिप्पण्यपि
द्रष्टव्या ।
१५
४. संमते' पाठा० ।
५. कृत्यल्युटो बहुलम् (श्र० ३ | १ | ११३ ) इति बहुलवचनादिति भावः । एतदपरिज्ञाय लिबिशमहोदयेन अत्र 'बहुलमेतन्निदर्शनम्' (१०।३२५) इति धातूसूत्रस्य संख्या निर्दिष्टा ।
२०
१. 'चार्वाकः' पाठा० । काशिकायां (१।३।३६ ) 'चार्वी' इत्येव पाठः । २. 'प्रतिषेधे' पाठा० ।
३. यथा तु महाभाष्यं तथा दक्षिणाग्नावेवेदं निपातनम्, तत्रापि यस्य दक्षिणाग्नेर्गार्हपत्याग्निरेव योनिस्तत्रैव । वैश्यकुलादाहृते दक्षिणाग्नावपि 'आनेय' ३५ इत्येव भवति । गोधुक्शब्दार्थे 'आनाय्य' पदमन्यत्र न दृष्टम् ।