________________
(क्षीरतरङ्गिण्यां हृपिषि (तु० उ०.४११९) इतीन् हरिः । जनिहृभ्यामिमनिन् (दश० उ० ६७८) हरिमाणं च नाशय (ऋ० ११५०।११) हृधभस (तु० दश०3० ६।१७६) इति ईमनिन्-हरीमा। वेजो डित्, प्रेहरतेः कूपे (दश० उ० ११६२,६३) प्रहिः । कृहृभ्यामेनुः (तु० उ० २।१)हरेणुर्गन्धद्रव्यम्, सस्यभेदश्च ॥८६८॥
६३८. भृज भरणे। भरते, भरति । ह्रादौ डुभृन (३।५) बिभर्ति । भारः । भृतः । ज्यादौ भ भरणे (६।२०) भृणाति । भरः ऋदोरप् (३।३।५७) । भरितः । संज्ञायां भृत (३।२।५६) इति
खच् - विश्वम्भरा । अवे भृजः(उ०२'३)क्थन्–अवभृथो यज्ञान्तः । १० अण्डन् कृसृभृवृजः(उ०११२२६) भरण्ड प्रापवनम् 1 भृशम् । भृङ्गः ।
भुरिक् छन्दः । कुनश्च (तु० उ० ११२२) इति बभ्रुः । भरतः । भरुर्देशः ॥८६॥
६३९. कृत्र करणे । करते, करति । स्वादौ कृञ् - हिंसायाम् (५७) कृणुते, कृणोति । तनादौ डुकृञ् करणे (८।११) कुरुते, करोति । उणादौ कारुः, कारिः, करणिः सदृशः करेणुः, ऋतुः,करकः=
१. सोम यज्ञानां समाप्तौ क्रियमाणं स्नानमवभृथशब्देनोच्यते । २. 'आवपनम् क्वचिन्नास्ति। ३. भरुकच्छ (भड़ौच) नाम्ना प्रसिद्धः ।
४. स्मृतोऽयं पाठः पुरुषकारे (पृष्ठ ३८)। अत्रेदमवधेयम्-प्रायेण सर्व एव प्राचीना देव-पाल्यकीर्ति-हेमचन्द्र-दशपाधुणादिवृत्तिकारादयः कृत्रं भ्वादौ २० पठन्ति । अस्य भ्वादिस्थस्यैव प्रयोगा: पालिप्राकृतभाषयोरुपलभ्यन्ते । हिन्दी
भाषायामपि 'करता है' इति अस्यैवापभ्रंशः, न तु करोतेः । एतेन कृत्रो भ्वादिध्वविगीत एव पाठः । सायणेन 'उपो षु शृणुहि' (ऋ० १८२।१) मन्त्रव्याख्याने धातुवृत्तौ (पृष्ठ १६३) चास्य महता प्रपञ्चेन भ्वादित्वं निराकृतम् । ये च तत्र हेतवो निर्दिष्टास्ते सर्वे हेत्वाभासा एव । भट्टोजिदीक्षितादयः सायणमेवानुययुः । इदमाश्चर्यं यत्सायणाचार्यः कृतः भ्वादित्वस्य महता प्रपञ्चेन निराकुर्वन्नपि ऋ० १।२३।६ मन्त्रव्याख्याने करताम् कृञ् करणे भौवादिकः' इत्याह । वस्तुतः कृत्रो भ्वादावेव पाठः, न तु तनादौ। अत एव पाणिनिना "तनादिकृञ्भ्य उ:' (३।१७६) सूत्रे तनादिभ्यः पृथक् कृत्रः पाठः
कृतः । सति तनादौ, कृत्रः पृथक् पाठोऽनुचित एव । कदाचि दुत्तरकालीनैरयं ३० तनादिषु प्रक्षिप्तः स्यात् । 'तनादिकृञ्भ्य उः' इति सूत्रस्थमहाभाष्याच्चैतत