SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ क्षीरतरङ्गिण्यां सास्ना (उ० ३।१५) इति वीणा । इन् (दश० उ० १।४६) वेणिः, वेणिका, वेणी । वेनिस्तु वीज्याज्वरिभ्यो निः (उ० ३।४८) । ण:वेण्णाख्या नदी ॥४८॥ ६१७. खनु प्रवदारणे । खनते, खनति। खात्वा, खनित्वा । जनसनखना सञ्झलोः (६।४।४२) आत्त्वम्-खातः । ये विभाषा (६। ४।४३) खायते, खन्यते । गमहनजनखन (६।४।१८) इत्युपधालोपः -चख्नुः । ई च खनः(३।१।१११)-खेयः । शिल्पिनि वुन्, नृतिखनिरञ्जिभ्यश्च (३।१।१४५, सूत्रं वात्तिकं च)खनकः । जनसनखनक्रम (३।२।६७) इति विट-विसखाः । अन्येष्वपि दृश्यते (३।२। १०१) ड:-परिखा । खन्यते-खम् । डित् खनेर्मुट चोदात्तः (उ० ५।२०)-मुखम् । अतिलुधसूखन (३।२।१८४) इतोत्रन्-खनित्रम् । उषिखनिभ्यां कित् (उ० ४।१६२) खात्रम् । प्राङ्परयोः खनिशभ्यां डिच्च (उ० १।३३)-पाखुः । खनिकष्यज्यसि (तु० उ० ४।१४०) इतीन् - खनिराकरः । प्राङि पणिपनिपतिखनिभ्यः (उ० २।४५) १५ इकन-पाखनिकः । खनो घ च (३।२।१२५)-पाखनः ॥८४६॥ ६१८. चीव आदानसंवरणयोः। [चीवते, चीवति । ] चीव इति दुर्गः- अचिचीवत् । छित्वरादौ (द्र० उ० ३।१) चीवरं मुनिवासः __ ॥८५०॥ ६१९. चाय पूजानिशामनयोः। चायते, चायति, अचचायत् । २० चायः की (६।१।३५)लिटि-चिक्युः । स्वपिस्यमिव्येजां यङि', (६। । १।१६) चायः को (६।१।२१)-चेकीयते । अपचितश्च (७।२।३०) पक्षे-अपचायितः । वक्तव्याद् (७।२।३० वा०) अपचितिः । चायः की च (तु० उ० ११७४) इति तुः-केतुः ॥८५१।। ६२०. व्यय गतौ । व्ययते, व्ययति । हम्यन्तक्षण (७।२।५) इति२५ अव्ययीत् । चुरादावन्तः (१०।३१७) व्यययति ।।८५२॥ ६२१. दादाने। दाशते, दाशति । अददाशत । क्वसौदाश्वान् (६।१।१२) साधुः । दाशगोघ्नौ सम्प्रदाने (३।४।७३)। पुरो १. 'चायः की' सूत्रं षष्ठाध्याये प्रथमे पादेः द्विः पठ्यते, कतमस्यात्रग्रहणमिति परिज्ञापनायैतत् सूत्रं निर्दिष्यते । ३० २. क्तिनि नित्यमिति वक्तव्यम्' इत्यनेनेति शेषः । स
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy