________________
भ्वादिगणः (१)
६१०. मिथ मे' मेधाहिंसनयोः। मेथते, मेथति । किति गुणविकल्पार्थं द्वौ-मिथ्यते, मेथ्यते। अभिमेथत् । मेथोऽचि । गौरादौ (गण० ४।१।४१) मेथी । मेथीवद्धोऽहि हि भ्राम्यन् घासनासं करोति गौः (द्र० सुभाषितावली २६५८) । अमरसिंहस्तु-सि मेथिः खले दारू न्यस्तं यत् पशुबन्धने (२।६।२५) । मिदृ मेदृ इति दुर्गः ॥ ५
८३६,८४०॥ ६११. मेध संगमे च। चकारान्मेधाहिंसनयोः। मेधते, मेधति, अमिमेधत् । मेधा । मेध्यम् । गृहमेधी । अश्वमेधः । मेधिः ।।८४१॥ ___६१२. णि णेदृ कुत्सासंनिकर्षयोः। प्रणेदति । निद्यते, नेद्यते। अनिनेदत् । णिवृ णेव इति प्राच्चो हेवाकिनः ॥४८२,४८३॥ १०
६१३. शृधु मृधु उन्दे । उन्दः क्लेदनम् । शर्धते, शर्धति । शृद्ध्वा , शर्धित्वा, शृद्धः । शधु शब्दकुत्सायाम् (१।५०६) शर्धते । मर्धते मर्धति । मृधं समरः ॥८४४,८४५।।
. ६१४. बुध बोधने । बोधते, बोधति । बुधिर् इति नन्दी-अबुधत, अबोधीत् । बोधिता । पूर्वस्य (११५६७) बोद्धा ॥८४६॥ ..
६१५. उबुन्दिर् निशामने । निशामनमालोचनम् । बुन्दते, बुन्दति । अबुदत्, अबुन्दीत् । बुत्त्वा, बुन्दित्वा । बुन्न. । धान्तोऽयमिति नन्दी । उबेदिर् इत्यन्ये ॥८४७॥ - ६१६. वेणू गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु । वादित्रं वाद्यभाण्डम्, तस्य वादनार्थं ग्रहणम् । वेणते, वेणति, अविवेणत् । रास्ना- .
२० __१. स्मृतोऽयं पाठः (धातुवृत्ति पृष्ठ १५६, पुरुषकार पृष्ठ ८०) । सि० कौ० अत्र दृष्टव्या।
२. हेवाकिनः आग्रहिण इत्यर्थः । द्र० सर्वदर्शनसंग्रहे 'कुहेवाक' पदस्यार्थः (पृष्ठ ६१, अभ्यङ्करसंस्क० पूना)।
३. काशकृत्स्नो ऽपि इरिदितमाह (पृष्ठ ११२) अनिरितं चन्द्रः (१। २५ ५६६)।
४. 'चाक्षुषज्ञानम्' इत्यधिकं क्वचित् । ५. 'उचुन्दिर्' इति चन्द्रः (१।६००) काशकृत्स्नधातुपाठे 'चुदिर् निशामने इति पठ्यते (पृष्ठ ११२), परन्तु तट्टीकायां 'चुन्दति चुन्दते' इत्युदाहरणदर्शनात् 'चुन्दिर्' इति शुद्धः पाठो द्रष्टव्यः ।