________________
५
क्षोरतरङ्गिण्यां
६०८. चते चदे च याचने' । चकारो भाषाथं' रेट्रर्थः । मन्दिवाशि ( उ० ११३८ ) इत्युरच् – चतुरः । चतेरुरन् ( उ०५।५८ ) चत्वारः । चतेर्वरच्—–चत्वरम् ॥८३६,८३७॥
२०
१३०
६०९. प्रोथ' पर्याप्तौ । पर्याप्तिः पूर्णता । प्रोथते, प्रोथति । अपुप्रोथत् । प्रोथोऽश्वघोणा । प्रियं प्रोथमनुव्रजेत् ॥ ८३८ ॥
१. अयमेव पाठश्चन्द्रस्य । काशकृत्स्नशाकटायनसायणानां ' याचने च ' पाठः । २. 'भाषार्थं ' क्वचिन्न |
३. धातोरुत्तरं पठ्यमानश्चकारो रेट्टधातुमनुकर्षति । तेन 'रेट' धातो: परिभाषणं याचनं चार्थः । इदमेव मत्वाह हेमचन्द्रः - रेटू (ग् ) परिभाषण१० याचनयोः (धातुपारा० १२१८६७) । क्षीरस्वामिनस्त्वत्र पाठो व्यस्त इति प्रतिभाति । वयं तु मन्यामहे 'चते चदे च याचने' इति कस्यचित्प्राचीनस्य श्लोकबद्धस्य धातुपाठस्यायमंशः । छन्दोऽनुरोधेन च चकारो भिन्नक्रमः, पूर्वधात्वर्थसमुच्चयार्थः । एवं चाष्टाध्यायामपि दृश्यते - ' पक्षिमत्स्यमृगान् हन्ति, परिपन्थं च तिष्ठति' इत्यत्रोत्तरसूत्रे हन्त्यर्थसमुच्चायकश्चकारो मध्ये पठ्यते । १५ पाणिनीयधातुपाठे सन्ति बहुत्र प्राचीनश्लोकबद्धधातुपाठस्यांशाः । एतस्मिन् विषये ऽस्मदीयस्य 'संस्कृत व्याकरण शास्त्र का इतिहास' नाम्नोग्रन्थस्य द्वितीय भागे ७५-७७ (च० संस्क० ) पृष्ठान्यवलोकनीयानि ।
४. उणादौ ( २।१२१) चतेः ष्वरच्प्रत्ययो विधीयते ।
,
५. काशक्रुत्स्तधातुपाठे ‘प्र ुथ् पृथ् पृतृ व्याप्तौ' (पृष्ठ १११ ) इति त्रयो धातवः पठ्यन्ते । तथा सति पृथुपृथिव्यादिषु प्रथ विस्तारे' इत्यस्मात् सम्प्रसारणविधानमनर्थकमेव । वस्तुतस्तु 'यज इज वप उप, प्रथ पृथ' इत्यादयो मूलतो द्विरूपाः धातवः । यास्कोऽपि तद्यत्र स्वरादनन्तरान्तस्थान्तर्धातुर्भवति तद्विप्रकृतीनां स्थानमिति प्रदिशन्ति । तत्र सिद्धायामनुपपद्यमानायामितरयोपपिपादयिषेत । तत्राप्येकेऽल्पनिष्पत्तयो भवन्ति' (निरुक्त २२ ) इति वदन् २५ द्विरूपान् धातून् स्वीचकार । अत एव भर्तृहरिरप्याह - भिन्नाविजियजी धातू विषयान्तरे' (वाक्य ० २।१७८ ) । यजसमानार्थकस्य इजधातोः प्रयोगोऽप्युपलभ्यते । यथा- यानि यज्ञेष्विज्यन्ति' (महा० शान्ति ०२६३।२६ इति । काशकृत्स्नस्य धातुपाठे 'इज ईजी' धातु पठ्यते व्याख्यायते च ' इजते ऋत्विक् । इजकः, इक्, इजमानः त्रयो निपुणे' ( ११४२५; पृष्ठ ७७ ) ।
६. अनुपलब्धमूलम् । लिबिशेनात्र महाभाष्यस्य (१।४।५६ ) संख्या ३० निर्दिष्टा, न तत्रैतादृशः पाठः ।