________________
१७
भ्वादिगणः (१)
१२६
५६६. अनुदात्ता उदात्ततः॥
६००. कुच सम्पर्चन-कौटिल्य-प्रतिष्टम्भ-विलेखनेषु । सम्पर्चनं मिश्रता, प्रतिष्टम्भो रोधनम्, विलेखनं कर्षणम् । संकोचयति । संकुचितः । के (द्र० ३।१।१३५) कुचः। घ-संकोच, उत्कोचः । न क्वादेः (७।२।५६) इति कुत्वं नास्ति ॥८३०॥
६०१. कस गतौ । कसति, उत्कसति । कासयति । विकसितः। कसः, कासः । नीग् वन्चुस्रन्सुध्वन्सुभ्रन्शुकस (तु० ७।४।८४) इति चनीकस्यते । स्थेशभास (३।२।१७५) इति वरच-विकस्वरः । णित्कसिपद्यतेः (श्वे० उ० ११८३) ऊः- कासूः शक्तिः । समि कस उकन् (श्वे० उ० २।३२)-संकसुकोऽस्थिरः ॥८३१॥ . . १. .६०२. उदात्तावुदात्तेतौ । एतौ सेटकौ परस्मैपदिनौ च ॥ ..
६०३. वृत् । ज्वलादयो वृत्ताः ॥
६०४. हिक्क अव्यक्ते शब्द'। इतो गुहपर्यन्ताः (१।६३४) षट्त्रिंशत् सेट उभयतोभाषाश्च । हिक्कते, हिक्कति । हिक्का । हिक्कितम् ॥८३२॥
६०५. अचि गतौ । अञ्चते, अञ्चति । अञ्च्यते। अञ्चितः । अन्चु गतौ (द्र० १।११६) अञ्चति, अच्यते। अक्तः । अबु इत्येके - अचति अचित्वा, अक्त्वा, अक्तः ॥८३३॥
६०६. डुयाच यामायाम् । याचते, याचति । अययाचत् । याचितः । यजयाच (७।३।६६) इति कुत्वाभावः-याच्यम् । ड्वितः २० वित्रः (३।३।८८) याचित्रिमम् । ट्विदिति दुर्गः'-याचथुः (द्र० ३। ३।८६) । यजयाचयत (३।३।६०) इति नङ–यात्रा ।।८३४॥
६०७. रेट परिभाषणे । रेटते, रेटति । अरिरेटत् ॥८३५॥ १. 'हिष्क गतौ' इति काशकृत्स्नः । संतोषगतौ इति तट्टीकाकारः (पृष्ट ।
२. 'त्रयस्त्रिशत्' 'त्रयोविंशति' इत्यपपाठौ। २५ ३. स्मृतमिद पुरुषकारे (पृ० ५१) धातुवृत्तौ च (१५८) । 'अञ्चु व्ययगतौ इति काशकृत्स्नः, पृ.१०६ । अञ्चुञ व्यये गतौ च इति तु शाकटायनः ।
४. 'गतौ नलोपः' इति काशकृत्स्नसूत्रेण गतौ अचति । द्र० तट्टीका पृष्ठ १०६ । . ५. काशकृत्स्नचन्द्रमैत्रेयसायणादय: ट्वितं पठन्ति ।