________________
१२८ ... क्षीरतर्राङ्गण्यां क्षत्रियापशदः, विशदः । अदिशदि [भूशुभि] 'भ्यः (उ० ४।६५) क्रिन् -शद्रिः । रुशातिभ्यां क्रुन् -(उ० ४११०३) शत्रुः । शदेयुच्च' इति रक् -शूद्रः । दाधेसिशदसदो रु (३।२।१५६) । शद्रुः ॥२६॥
५९६. क्रुश आह्वाने रोदने च । कोशति । क्रोष्टा। आक्रोष्टा । ५ क्रोशः । क्रुषः । उत्क्रोशः । कुररः । सितनिगनिमसि (उ० १७०)
इति तुन् -क्रोष्टून् ॥२७॥ - ५६७. बुध अवगमने । अवगमनं ज्ञापनम् । बोधति । अभौत्सीत् गतिबुद्धिप्रत्यवसानार्थ (१।४।५२) इति कर्तुः कर्मसंज्ञा -बोधयति शिष्यं धर्मम् । बोद्धा । इगुपध (३।१।१३५) इति कः-बुधः । घ-बोधः । मतिबुद्धि (३।२।१८८) इति वर्तमाने क्तः राज्ञां बुद्धः। दिवादौ (४।६३) बुध्यते । हिक्कादौ (१।६१४) बोधते, बोधति, बोधिता ॥२८॥
५९८. रुह बीजजन्मनि । बीजस्य जन्माङ कुरोत्पत्तिः । रोहति । रुहः पोऽन्यतरस्याम् (७।३।४३) रोपयति, रोहयति । घार्थ क वि१५ धानाद् (द्र० ३।३।५८ वा०) बीजरुहाकरोति केशाश्छिन्नरूहाः। के
(द्र० उ० १३११५) रुहो मृगः । प्ररुहः । प्ररोहः, पारोहः । रूढः । रूढिः । रुहेर्वृद्धिश्च (उ० १४७) इति रौहिषं तृणम्, रौहिषो मृगश्च । हृपिशिरुहि (उ० ४।११६) इतीन् -रोहिगः । हृसृरुहियषिभ्य इतिः (उ० ११९७) रोहित । रहेरश्च लो वा (उ० ३।९४) -लोहितः, रोहितः, रोहिणी । अन्यत्रापि च (तु० उ० २।३६) इतीनच्-रोहिणः ॥८२६॥
१. कोष्ठान्तर्गतोऽयं पाठस्त्रुटित इति प्रतिभाति 'भ्यः' इति बहुवचनदर्शनात् । लिबिशमहोदयेन नैतत् परिज्ञातम् ।
___२. 'शदेरूच्च' इति युक्तः पाठः स्यात् श्वेतवनवासी तु 'शदेरू च' (उ० २५ २।१८) इत्येवं पठति । अन्यत्र 'शुचेर्दश्च' इति पाठः ।
३. सर्वनामस्थानेषु तृज्वद् भावविधानात् (अ० ७।१।६५) शसो रूपमुदाहृतम् ।.
४. 'संज्ञापनम् पाठा० । ५. 'प्रभोत्सीत्' इति सार्वत्रिकोऽप्यपपाठः । ..
६. साक्षात् प्रभृतिषु (गण० १।४।७४) बीजरुहा शब्दः पठ्यते, तेनात्र ३० गतिसंज्ञा।