________________
भ्वादिगणः (१)
दाश्यते-पुरोडाशः, पृषोदरादित्वात् (६।३।१०६) डत्वम्, एवं दुःखेन दाश्यते दूडाशः । दाय दान इति कौशिकः ॥८५३।।..
६२२. अय गतौ। अयते। उदयति दिननाथः (द्र० पूर्वत्र पृष्ठ ५६) ॥८५४।। ..
.६२३. भेष भ्रष भये । ६२४. भेष चेलने च । भेपते, भेषति । ५ अबिभेषत् । भेषयति । बिभेतेः (३।२) मुण्डो भीषयते (द्र० ७।३। ४०) । भ्रषते, भ्रषति । भ्रषः ॥८५५,८५६॥ .. ___६२५. अस गतिदीप्त्यादानेष । असते, असति । लावण्य उत्पाद्य इवास यत्नः (कुमारसंभव ११३५) इत्यत्र प्रासेत्यसतेरिति वामनः । (काव्यालं० ५।२।२७) अस्तेरित्येके । अदादौ अस भुवि (२०६०) अस्ति । [अष इत्येके ] ॥८५७॥
६२६. स्पश बाधनस्पाशनयोः। स्पाशनं ग्रन्थनम्। स्पशते, स्पशति । सेयमभयतः स्पाशा रज्जः । स्पशश्चरः । पस्पश उपोद्घातः। चुरादौ स्पश बाधने (तु० १०।१३०) पश बन्धने (१०।१६५)स्पाशयते, पाशयति । पष इत्येके -पाषः, पाषाणः ॥८५८॥
६२७. लष कान्तौ । कान्तिरिच्छा वा । भ्राशभ्लाश (३।११७०) इति वा श्यन-अभिलष्यते, अभिलषते, अभिलष्यति अभिलषति । जुचक्रम्य (३।२।१५४) इत्युकञ् - अभिलाषुकः । लषेः श च (दश० उ० ५।५४) इत्युनन् लशुनम् ।।८५६॥
६२८. चष भक्षणे। चषते, चषति । चाषः । चषकः । सानसिव- २० "सि (उ० ४।१०७) इति चषालो यूपकटकः ।।८६०॥
१. उद्धृतमिदं धातुवृत्तौ (पृष्ठ १५८) । अत्र पाठस्त्रुटितः प्रतिभाति ।
२. 'स्पश बाधनस्पर्शनयोः । स्पर्शनं ग्रथनम्' इति स्वामी (द्र० धातुवृत्तिः पृष्ठ १५८) । धातुवृत्तेः पाठोऽत्राशुद्धः प्रतिभाति ।
३. द्र० – सैषोभयतः स्पाशारज्जुर्भवति (महा० ६।१।६८)। २५
४. 'स्पश ग्रहणसंश्लेषणयोः' इति चुरादौ (१०।१३०) पाठः । तत्र च । 'म्वादो स्पश बाधने' इत्युक्तम् । ___५. उधृतं धातुवृत्तौ (पृष्ठ १५८) । अत्र 'एके' पदेन दुर्गोऽभिप्रेतः । यदाह चुरादौ (१०।१६५) 'उभयत्रापि मूर्धन्यान्त इति दुर्गः' । यथा तु पुरुषकारे (पृष्ठ १०८) पाटस्तदनुसारं दुर्गशाकटायनयोरेष पक्षः ।
३०