________________
१.२६:
क्षीरतरङ्गिण्यां
.४
७१) इति षत्वं वा पर्यसहत पर्यषहत विसहनेकृत्येति साक्षादादि' पाठान्नास्ति । तीषुसह ( तु० ७२२२६४ ) इति वेट् सहिता, सोढा । विसोढा सोढः (८।२ । ११५) इति षत्वाभावः सहिवहोरोत् ( ६ | ३ | ११२) सोढः । वर्णग्रहणात् साहेरपि सोढा, णिलोपे पूर्वत्रासिद्धे न ५. स्थानिवद् (१।१५७ वा० ० ) इति ढत्वादि । दाश्वान् साहह्वान् मीवांश्च ( ६१.१२ ) इति क्वसौ साह्वान् । शक्सिहोश्च ( ३।१।६९ ) इति यत् - सह्यम् । ल्यु: ( द्र० ३ १ । १३४ ) सहनः । सहेः पृतनर्ताभ्यां च ( ८|३|१०९) इति ण्विः * - पृतनाषाट् तुराषाट्, सहेः साडः सः ( ८|३|५६ ) इति षत्वम्, षाड्रूपत्वाभावे नास्ति - पुरासाहं पुरोधाय १० ( कुमारसम्भव २ । १) इति, नहिवृतिवृषि ( ६ । १ । ११६ ) इति दीर्घः । अलङ्कृञ ( ३।२।१३६ ) इतीष्णुच् सहिष्णुः । श्रनुपसर्गाल्लिम्पविन्द ( ३|१| १३८) इति ण्यन्तात् शः - साहयः । संज्ञायां भृत ( ३।२।४६ ) इति खच् - सर्वंसहः । श्रसुन् (द० उ० ६१४६ ) सहस् । शकधृषज्ञा ( ३।४।६५) इति तुमुन् - सहते भोक्तुम् । सहेः षष् क्विप् च* १५ षट् । चुरादौ (१०।२०४) श्रधृषाद् वा (१०।२०१) वा णिच् - सहति साहयति ॥ ८२३॥
२०
-
५ε२. रम क्रीडायाम् । ५६३. अनुदात्तोऽनुदातेत् । श्रनिडात्मनेपदी च । रमते । व्याङपरिभ्यो रमः, उपाच्च (१।३।८३,६४ ) परस्मैपदम् - विरमति, उपरमति । अन्तर्भावितण्यर्थोऽत्र सकर्मकः ।
१. काशिकायां साक्षादादिगणे (१।४।७४ ) विहसने' इति पठ्यते । गणरत्नमहोदधौ तु 'विसहने, विहसने' इत्युभयं पठ्यते ( पृष्ठ ७७ ) ।
षत्वमिति शेषः ।
३. " जर्मन संस्करणे 'पूर्वत्रासिद्धे न स्थानिवद्' इत्यनन्तरमितिपदनिर्दे शे सत्यपि वार्त्तिकमिमबुद्ध्वा पूर्वसम्पादकेन पूर्वत्रासिद्धे न ( ८।२।१) स्था२५ निवद्' इत्येवं पाठो विकृतः ।
४.‘सहेः पृतनर्ताम्यां च' (८।३।१०६ ) इति सूत्रं 'पृतनाषाहम्, ऋताषाहम्' इत्यत्र षत्वविधायकम्, न ण्विप्रत्ययविधायकम् । ण्विप्रत्ययस्तु 'छन्दसि सहः ' ( ३।२६३ ) इत्यनेन भवति । लिबिशमहोदेयन इयमशुद्धिर्न बुद्धा । ५. द्र० (सहेः षष् च' (क्विबनुवर्तते ) सर० कण्ठा० २।१।३०६ ॥