________________
१२५
भ्वादिगणः (१) स्नावनुवमाञ्च (११५५६) इति वा मित्त्वम् वामयति, वमयति । जिदृक्षि (३।२।१५७) इतीनिः- वामि। नोदात्तोपदेशस्य (७।३। ३४) इति निषेधे प्राप्ते वमिकमिचमीनाम् (७।२।३४) इति वृद्धिः, ण्वुल्- वामकः । वामयतेल्युट्-योग-वामनम् । न वमतीत्यवमः । घत्रि-वामः । अस्त्यर्थे (द्र० ५।२।१००) वामनः। वामी अश्वा ॥ ५
८१९॥ ५८६. भ्रम चलने । वा भ्राशमलाश (३।१७०) इति वा श्यन्भ्रमति भ्राम्यति । वा भ्रमुत्रसाम् (६।४।१२४) इत्येत्वाभ्यासलोपो - भ्रमुः बभ्रमुः । भ्रान्त्वा, भ्रमित्वा । भ्रान्तः । णे- भ्रामः । भ्रम इति दुर्गः । भ्रमेश्च उ:'-अभ्रमुः । इन् (दश० उ० १।४६) भ्रमिः । १. भ्रमेः सम्प्रसारणं किच्च (तु० उ०४।१२१) इति भूमिर्वायुः । प्रतिकमिभ्रमि (उ० ३।१२२) इत्यरन् -भ्रमरः। दिवादौ (४।६८) शमाद्यर्थः पाठः-भ्राम्यति ॥२०॥
'५८७. क्षर सञ्चलने। क्षरति । क्षरिष्यति । क्षारः । क्षारी णेऽप्यप्रकृतं क्वचिद्' इति ङीप् । क्षरः । अक्षरम् ।।८२१॥
५८८. क्षल सञ्चये च । सञ्चलने च । क्षलति । चुरादौ क्षल शौचे (तु० १०॥५२) क्षालयति ।।८२२॥
५८६ उदात्ता उदात्तेतः॥ .
५६०. षह मर्षणे । मर्षणं क्षमा । अयम ५६.१. उदात्तोऽनुदातेत् । सेडात्मनेपदी च । सहते। सिसहिषते । स्तन्भुसिवुसहां चङि (तु० ८।३।११६) इति षत्वम् –पर्यसीषहत्, सः स्विदिस्वदिसहीनां च (८।३।६२) इति सत्वम - सिसाहयिषति । परिनिविभ्यः (३। ७०) इति षत्वम -विषहते । सिवादीनां वा ऽड्व्यवायेऽपि (८.३।
१. नैतादृशं क्वचित्सूत्रमुपलब्धम् । अत्र नअपूर्वात् भ्रमे हुलकाद उः प्रत्ययो द्रष्टव्यः । ___२. तुलना कार्या-ताच्छीलिके णेऽप्यण्कृतं भवति । परिभाषावृत्ति सीरदेव, पृष्ठ १३३ ।
३. निरुक्तसमुच्चयकृता वररुचिना 'इन्द्राग्नी अवसा' (ऋ७।६४७) इति चतुःषष्टितमे मन्त्रव्याख्याने 'वह मर्षणे, अभिभवे छन्दसि' इत्युक्तम् (नि० स० पृष्ठ ६१)।
४ सिषहिषते' इति शुद्धः पाठः । ३०