________________
१.२४
क्षीरतरङ्गिण्यां
लषपतपद ( ३।२।१५४) इत्युकञ् प्रपातुकः । विशिपतिपदिस्कन्दाम् ( ३ | ४|५६ ) इति णमुल् गेहानुप्रपातमास्ते । दाम्नी ( ३।२।१८२ ) इति ष्ट्रन् - पत्रम् । पतिचण्डिभ्यामालञ ( उ० १ । ११६ ) पातालम् । पतेरङ्गच् पक्षिणि ( उ० १।११६ ) पतङ्गः । पतेरश्च लः ( उ० ३। ५ ७४)- - पत्सलः । श्रमिनक्षि ( उ० ३।१०५ ) इत्यत्रन् – पतत्रम् । वीपतिभ्यां ततन् ( उ० ३ | १५० ) पत्तनम् । पतस्थ च ( उ० ४।१२ ) इतीनि: - पन्थाः । शलिपतिपदिभ्यो नित् ( तु० उ० श्वेत० ४।१५) पताका । स्पृहिगृहि (३।२।१५८ ) इति सूत्रात् पतयालुः।। ८१३-८१५।। ५८१. हुल हिंसासंवरणयोश्च । होल:, हुलः, हुलि:, हुडि: उणादी १० हुलु'र्देशः " ।।
५८२. क्वथे निष्पाकें । क्वथति । प्रक्वथीत् । क्वाथः, क्वथः । अस्त्यर्थे ( द्र० ५।२।१२५) क्वाथिका यवागूः ॥ ८१६ ॥
५८३. पथे गतौ । पथति । प्रपथीत् । पाथः, पथः ॥ ८१७॥
५८४. मथे विलोडने । मथति । प्रमथीत् । माथः, मथः । मन्दि१५ वाशि ( उ० १।३८) इत्युरच् - मथुरा । मन्थ मन्थे' मन्थति । ऋयादौ ( ६।४५) मध्नाति ॥ ८१८ ॥
२०
२५
३०
५८५. टुवम उद्गिरणे । उद्गिरणं भुक्तस्योर्ध्वगतिः । वमति । वामः, वमः । वमथुः ँ । वमितः । उदित्येके - वान्त्वा वमित्वा । घृणः खलु वान्ताशी । न शसदद ( ६ । ४ । १२६ ) इति ववमुः । ग्ला
१. हुडू:' पाठा० ।
२. प्रत्र' मेष' इति पाठो युक्तः प्रतिभाति । श्रमरटीकायां ( २/६/७६ ) मेषपर्यायव्याख्यानान्ते 'हुडु' नामापि पठति क्षीरस्वामी । तस्मादत्र 'हुडुर्मेष: ' इति युक्तः पाठः । ३. क्वथे विपाके' इति काशकृत्स्नधातुपाठे (पृष्ठ १०७ ) । ४. काशकृत्स्नः ‘पल शल पतृ पथा गतौ च' इति पठति (पृष्ठ १०७ ) । ५. गथे विलोडने गथति गथकः -' इत्यादि काशकृत्स्नीयधातुपाठे तट्टीकायां च पाठः (पृष्ठ १०७ ) ।
६. नैतादृशं क्वचिद् भ्वादौ पठ्यते । मन्थ हिंसा कालेनयोः पूर्वत्र ( १।३७) पठ्यते । ७. 'वमथु : ' क्वचिन्नास्ति ।
८.
तुलनीयम् - 'डुवम उद् गिरणे' काशकृत्स्नपाठः (पृष्ठ १०८ ) । ६. अनुपलब्धमुलम् ।