________________
भ्वादिगणः (१)
१२३
ऽस्यास्तीति' [पुली' । तलिपुलिभ्यां च ( उ० २।५३ ) ] पुलिनम् । कुणिपुलो: किन्दच् (तु० उ० २२८५ ) पुलिन्दः । पिनाकादौ ( द्र० उ० ४।१५) पुलाकस्तुच्छधान्यम् । इक् पुलिः । पुलकः । तुदादौ पुलति । चुरादी (१०।५६ ) पोलयति ।। ८११ ।।
५७६. कुल संस्त्याने बन्धुषु च । संस्त्यानं संघातः । कोलं बदरम् । कक्क्वोलः, कङ्कोलम् । कुलम् । नकुलः । तमिविडि ( दश० उ०८।१११ ) इति कालन् – कुलालः ॥ ८१२॥
५८०. शल' हुल पत्लृ गतौ । शलति । शाला । शलः । शललं श्वाविल्लोम । शल्यकः । शल्यम् । शल्मलिः । शलभः । शल्कः । शलाका । शालूकम, उत्पलादिकन्दः । शल चलनसंवरणयोः ( १ | १० ३२८) इत्यस्यैव ज्वलादिकार्यार्थः पाठः । होलति । पतति । लृदित्वात् लुङि ग्रङ, पतः पुम् ( ७|४|११ ) अपप्तत् । उत्पातः । निपातः । पातो राहुः । पतः । नेर्गदनद ( ८|४|१७ ) इति णत्वम् - प्रणिपतति । सनीवन्तभ्रस्ज ( ७/२/४६ ) इति वेट् सनि मीमाधु ( ७।४।५४ ) इतीस्-अभ्यासलोपौ (द्र० ७ ४ । ५८ ) – पित्सति, पिपतिषति । पतितः १५ - यस्य विभाषा ( ७/८ । १५ ) इतीग्निषेधो नास्ति द्वितीयाश्रितातीतपतित (२।१।२४ ) इति लिङ्गात् । श्रलङ्कृञ ( ३।२।१३६ ) इतीष्णुच् – उत्पतिष्णुः । जुचङ्क्रम्य ( ३।२।१५० ) इति युच् - पतनः ।
-
५
7
५. शल श्वल आशुगमने इति ज्वलादी क्षीरस्वामी' इति पुरुषकारे ( पृ० १०४) उद्ध्रयते । अत्र न तथा पाठ उपलभ्यते ।
१.. इतोऽग्रे कश्चित् पाठस्त्रुटितः प्रतिभाति । नहि 'पुलोऽस्यास्तीत्यर्थे' 'पुलिनम्' संभवति, 'पुली' इति प्राप्नोति । अस्माभिस्त्रुटित पाठपूरणाय २० प्रयतितम् ।
२. केचन बलादी (५|२| १३६ ) पुलशब्द पठन्ति । द्र० गणरत्न० २६३ । ३. पूर्वसम्पादकेन लिबिशेन अत्रोणादे: ( ४ । १४२ ) संख्या तुलनाय निर्दिष्टा । न चोणादो 'इक्' प्रत्ययः श्रूयते । अयं तु 'इक् कृष्यादिभ्यः' ‘इति वार्त्तिके (३।३।१०८) पठ्यते । वार्त्तिकमिदमबुद्ध्वा लिबिशोऽसत्कल्पनां १५
1
कृतवान् ।
४. मतमिद पुरुषकारे (पृष्ठ १०४) उद्धृतम् । परन्तु क्षीरतरङ्गिण्यां नायं तुदादावुपलभ्यते । 'पुर' अग्रगमने' इति तु सर्वैस्तुदादिषु पठ्यते ।
३०