SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १२२ क्षीरतरङ्गिण्यां ५७०. जल घात्ये। घात्यं जडत्वम्, प्रतक्ष्ण्यमित्यर्थः । जलति । जालम्, जलम् । व्यवस्थितविकल्पत्वाद् भिन्नेऽर्थे प्रत्ययौ । चुरादौ जल अपवारणे (१।२०) जालयति । लडयोरेकत्वाज् जडः ।।८०३।। ५७१. टल ट्वल वैप्लव्ये । विप्लव एव वैप्लव्यम् । टलति ॥ ८०४,८०५॥ ५७२. स्थल स्थाने । ष्ठल इति चन्द्रः (३।५६५) स्थलति । स्थालम । स्थाली । स्थलम् । स्थली ॥८०६॥ - ५७३. हल विलेखने । विलेखनं कर्षणम् । हलति । हाला सुरा। हालम , हलम् । इन् (दश० उ० ११४६) हलिः, हडिः ॥८०७॥ ५७४. णल गन्धे । गन्धोऽर्दनम् । प्रणलति । नालम् । नाला • पद्मादीनां वृन्तम् । नाली, नाडी। प्रणालः, प्रणाली, प्रणाडिका । नलः, नडः ।।८०८॥ ५७५. पल गतौ । पालः । पलं मांसम् । पललं तिलकल्कः । गाः पालयति-गोपालः । चुरादौ पल रक्षणे (१०।६३)-पालयति ।८०६ ५७६. बल प्राणने । प्राणनं जीवनम् । बलति। बालः, बाला अजादौ (३।१।१३४) । बलः, बलम् । चुरादौ (१०७८) मित्बलयति ।८१०॥ ५७७. धान्यावरोधने च । धान्यमवरुध्यते यत्रेति कुसूलेऽर्थेबलट: । वल संवरणे (११३२६) त्वात्मनेपदी-वलते ॥ ५७८. पुल महत्त्वे । पोलति । पोलः । विपुलम् । पुलः । पुलो १. 'जल धान्ये' इति काशकृत्स्नीये (पृष्ठ १०६) चान्द्रे (११५६३) च । पाठः । आर्दीकरणं च तदर्थः इति कन्नडटीकातोऽवगम्यते । २. 'घातनं तैक्ष्ण्यम्' इति क्षीरस्वामी इति धातुवृत्तौ (पृष्ठ १४४) पाठः। ३. मैत्रेयसायणादयः 'वैक्लव्ये' इत्याहुः । तथैव काशकृत्स्नचन्द्रावपि । ४. काशत्स्नधातु धातुपाठेऽपि 'ष्ठल' इत्येव पठ्यते (पृष्ठ १०६) । ५. 'वल संवरण दन्त्यौष्ठ्यादिः' । तस्यात्र ओष्ठ्यादौ निर्देशो भ्रान्त्या बोध्यः ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy