SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ भ्वादिगणः (१) . १२१ वा भ्राशभ्लाश (३।११७०) इति श्यन् भ्राशते भ्राश्यते, भ्लाशते म्लाश्यते । भ्राशथुः, भ्लाशथुः ॥७६२-७६४॥ [सेटः परस्मैपदिनः] ५६५. स्यम स्वन स्तन ध्वन शब्दे । इतः क्षलान्ता (११५८८) अष्टाविंशतिः सेटः परस्मैपदिनश्च । स्यमति । स्येमुः सस्यमुः । उणादौ ५ (द्र० ३।४६) स्यमीका क्रिमिः । स्वनति । स्वेनुः सस्वनः । वेश्च स्वनो भोजने (८।३।६६) षत्वम्-विष्वणति, अवष्वणति । स्वनयति । स्वनान्तः फणादिः । स्तनति, स्तनयति । ध्वनति, ध्वनयति । प्टन इति चन्द्रः'-तिष्टनयिषति ॥७६५-७६८।। . ५६६. षम ष्टम अवैक्लव्ये । समति । समः । विषमः । समयति । १० स्तमति, स्तमयति ॥७६६,८००॥ ५६७. वृत् । घटादय एतदन्ता इति सभ्याः ॥ ... ५६८. ज्वल दीप्तौ। ज्वलति । ज्वलिता। ज्वलितिकसन्तेभ्यो णः (३।१।१४०) वा- ज्वालः, ज्वाला, ज्वलः ॥८०१॥ ५६६. चल कम्पने । चलति । चलितः। चलनः । चालः, चलः, १५ चरचलवद (तु०६।१।१२ वा०) इति चलाचलः । यङ्लुक्यपि विकल्पः -चाचल: चञ्चलः । चलिः कम्पने (११५४६) णौ मित-चलयति । चुरादौ चल भृतौ (१०।६२) चालयति ।।८०२॥ १. मुद्रिते चान्द्रधातुपाठे (११६६६) 'स्यमु स्वन ध्वन शब्दे' इत्येव पाठ उपलभ्यते । क्षीरस्वामिवचनादत्र स्वनः परः 'ष्टन' धातुः प्रणष्ट इति प्रती- २० यते । लिबिशेनात्र चान्द्रधातुपाठस्य १११५३ संख्या निर्दिष्टा, सा प्रामादिका। २. स्मृतं धातुवृत्तौ (पृष्ठ १४३)। ३. अभ्यासस्य आगागमस्य इति शेषः । ४. आगागमाभावे 'नुक्' केन भवति इति न स्पष्टीकृतं क्षीरस्वामिना। स्वीयामरकोशव्याख्यानेऽपि 'चञ्चला' पद न साधु व्याकृतम् ।। ५. अर्थतो अनुवादः । २५
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy