________________
क्षीरतरङ्गिय
५५३. घटादयो मितः । उदाहृतमेतत् ॥
५५४. जनी- जुष्-ऋसु-रजोऽमन्ताश्च । जनी प्रादुर्भावे ( ४/४० ) जुष् बयोहानौ ( ४।२० ) ऋसु हरणदीप्त्यो ( ४|५) रञ्ज रागे ( १ | ७२६) इत्येते ऽमन्ताश्च मित्संज्ञाः । जानयति । जन जनने ( 31२४ ) ५ इति जुहोत्यादिरपि गृह्यते, अन्यथार्थरूपयोरभेदात् विकल्पेनामित्त्व ब्रूयात् । वैदिको वाऽसौ जनयति । जष वयोहानौ (४/२० ) दिवादि: - जरयति । नृणाते: ( ६ । २३ ) तु जारयति' पतिम, जारयत्य भ्रकम् । रञ्जेण मृगरमणे नलोप: ( ६ । ४ । २४ वा० ) - रजयति मृगान् । रमयति, भ्रमयति, संक्रमयति, विश्रमयति ॥
१०
१५
११८
५५५. ज्वल-ह्वल-ह्यल-चल' नमामनुपसर्गाद्वा । एषां नित्यं मित्त्वं प्राप्तम्, अनुपसर्गाणां विकल्प्यते । ज्वालयति, ज्वशर्याति । ह्वालयति, ह्वलयति । ह्यालयति, ह्यलयति । चालयति, चलयति । नामयति, नमयति । सोपसर्गाणां तु नित्यम् - प्रज्वलयति, विह्वलयति, प्रह्मलयति, प्रचलयति, प्रणमयति ॥
५५६. ग्ला - स्ना-वनु- वमाञ्च । श्राद्ययोरप्राप्तो विकल्पः, अन्त्ययोः प्राप्तौ । एषामनुपसर्गात् मित्त्वं वा । ग्लपयति, ग्लापयति । स्नपयति, स्नापयति । वनयति, वानयति । वमयति, वामयति । अनुपसर्गादित्येव - प्रग्लापयति, प्रस्नापयति, उपवनयति, उद्वेमयति ॥
५५७. न कम्यमिचमाम् । एषाममन्तत्वात् प्राप्ता मित्संज्ञा २० निषिध्यते । कामयते । श्रमयति । श्रचामयति ॥
५५८. शमोऽदर्शने । शभु उपशमे ( ४१६४ ) इत्यस्य दर्शनादन्य- .
१. पुरुषकारे ४२ तमे पृष्ठे क्षीरस्वामिनाम्नोद्धृते पाठे नंद उपलभ्यते । २. स्मृतं प्रक्रियाकौमुद्याम् (भाग २, पृष्ठ ३२४ ) ।
३. 'विनमयति' पाठा० ।
२५
४. काशकृत्स्नधातुपाठे ग्लास्नाव नुवमश्वनक म्यमिचमः' इत्येवं सूत्रपाठः । तत्र 'श्वन' इति स्वतन्त्रो धातुः (अयं धातुः काशकृत्स्नधातु गठ इहव पठ्यते) । कम श्रम चम एषामपि विकल्पेन मित्संज्ञा विधीयते । व्याख्यातं चैतत् टीकाकारेण - कमयति कामयति, श्रमयति श्रामयति, चमयति चामयति (पृष्ठ १०४ ) । पाणिनीयास्तु कम्पमिचमां मित्त्वं प्रतिषेधयन्ति ।