________________
भ्वादिगणः (१)
११६
त्रार्थे' मित्संक्षा' । ग्रमन्तत्वात् सिद्धौ नियमार्थं वचः । शमयति रोगम्, निशमयति श्लोकम् । दर्शने तु - निशामयति रूपम् । निःशर्करमिदं तीर्थ भरद्वाज निशामय पश्येत्यर्थः ।।
५५६. यमोऽपरिवेषणे । यम उपरमे (१।७११ ) इत्यस्य परिवेषणादन्यत्रैवार्थ मित्संज्ञा । यमयति, नियमयति । परिवेषणे ५ तु यामयति श्राद्धेऽन्नम् श्रायामयति चन्द्रम् । अत्रैव स्वनोऽवतंसन इति दुर्गः - स्वनयति वस्त्रम् ॥
५६०. खदिर् श्रपपरिभ्याञ्च । श्राभ्यामेवोपसर्गाभ्यां स्खदिः मित्' । अपस्खदयति परिस्खदयति । श्रवेति - श्रीभोजः प्रवस्वदयति । अन्योपसर्गपूर्वान्नास्ति - प्रखादयति ।
१०
५६१. फण गतौ । फणति, फणयति । फणाञ्च सप्तानाम् ( ६ |४| १२५) इत्येत्वाभ्यासलोपो वा - पफणु, फेणुः । गतेरन्यत्र - फाणयति घटं, निःस्नेहयतीत्यर्थः " । क्षुब्ध-स्वान्त, ध्वान्त ( ७|१|१८ )
१. स्मृतमिदं पुरुषकारे ( पृष्ठे १०१ ) धातुवृत्तौ (पृष्ठ १४० ) च । दूषितं च सि० कौ० (भाग ३, पृष्ठ १६३) ।
१५
२. धातुवृतौ 'न' पदं 'स्खदिरवपरिभ्यां च ' (१।५६०) सूत्रं यावदनुवर्त्यते । तत्र स्वामिमतं महता प्रपञ्चेन दूषितः । ३ 'प्राप्ती' पाठा० । ४. रामायण पश्चिमोत्तर शाखा ( लाहौर संस्क० ) - बालकाण्ड २।५।।
तत्र 'भारद्वाज' इत्यपि पाठान्तरम् ।
२०
५. द्र०' तत्र च क्षीरस्वाम्यादिपक्षे .. ' इत्यादि पुरुषकारे (पृष्ठ १०१) । दूशितं च स्वामिमतं धातुवृत्तौ (पृष्ठ १४१ ), सिद्धान्तकौमुद्यां (भाग ३ पृष्ठ १९४) च । काशकृत्स्नधातुपाठस्य कन्नडटीकायामन्यथा व्याख्यायते ( पृष्ठ १०४) । ६. 'अन्नं' क्वचिन्न ।
७.
'यमोंऽपरि••• चन्द्रम्' इत्येतावदुद्धृतं पुरुषकारे ( पृ० १०० ) । ८. 'स्खदिर् प्रवत्यां च' इत्येवं काशकृत्स्नधातुपाठसूत्रम् । 'अवत्यां २५ रक्षायां, चात् परिवेषणे च मित्' इत्येवं तट्टीकायां व्याख्यातम् ( द्र०पृष्ठ१०४) ।
C. इयं व्याख्या धातुवृत्तौ (पृष्ठ १४१) दूषिता ।
१०. ' वक्तव्य' इत्यधिकः क्वचित् ।
११. ' अन्यत्र फाणयति, सक्तून् स्नेहयतीत्यर्थः इति स्वामिसम्मताकारौ' इति सायण: ( धा०वृ० पृष्ठ १४१ ) । क्षीरत रङ्गिण्यां नैतादृशः पाठ उपलभ्यते ।
३०