________________
क्षीरतरङ्गिण्यां __५४५. दृ भये । दरति । दरः । दरद् रोमकदेशः' । बालं दरयति । क्रयादौ द विदारणे (२२)-दणाति, दारयति काष्ठम् । तस्यैव
मित्त्वार्थ इह पाठ इत्येके । दिवादौ दोर्यतीति पञ्चिका । कर्मकर्तरि -- दीर्यत इत्येके ॥७८७॥ ... २ ५४६: न नये । क्रयादेर् (१।२४) मित्त्वार्थं विरलोऽस्य पाठः । नृणन्तं प्रयुवते नरयति ।।७८८।।
५४७. श्रा पाके। अदादेः (२।४६) श्रे पाके (१६५३) इत्यस्य वेह मित्त्वार्थः पाठः । श्राति श्रायति वा कश्चित् तं प्रयुङ्क्ते श्रपयति चरु चैत्रेण; अन्यत्र श्रापयति धर्मः, खेदयतीत्यर्थः ॥७८६॥
५४८. मारणतोषणनिशानेषु ज्ञा। निशानमुत्तेजनम् । निशामन . इत्येके पेठुः । ज्ञाः अवबोधन (६३८) इत्ययं क्रयादिरिणादौ मित् - संज्ञपयति पशुम्, विष्णु विज्ञपयाम्यहम्, प्रज्ञपयति शास्त्रम् । अन्यत्र-राजानं विज्ञापयति, अवबोधने ज्ञापयति, प्राप्ति प्रज्ञापयतीति
ज्ञानार्थे । तोषणे-एवमाज्ञप्तोऽस्मि सामाजिकैः । कथम् प्रध्वंसा१५ भावो जीप्स्यते, प्रछ ज्ञीप्सायाम् (६।११७) इति ज्ञापकाद् ह्रस्वोऽत्र
प्राप्जप्यधामीत (७।४।५५) इति कृतह्रस्वस्येत्त्वात्, चुरादौ ज्ञपिर् (१०७५) अप्यहेतुमण्णिचर्थः जीप्सत्यर्थ इत्येके । चुरादौ ज्ञा नियोजने (१०।१७८) अस्मात्-प्राज्ञापय ज्ञातविशेषपुंसाम इति । - ५४६ कम्पने चलिः । ज्वलादौ (:१५६८) पठितस्यापि अस्येह
१. दरद् म्लेच्छजातिरिति अमरटीकायां (पृष्ठ ३४६) स्वामी। तस्य निवासस्थानं दर्दीस्तान' नाम्नासंप्रति प्रसिद्धम् ।
२. स्मृतमिदं धातुवृत्तौ (पृष्ठ १३८) ३. स्मृत मिदम् पुरुकारे (पृष्ठ २१) ४. 'ज्ञः' पाठा० । एतद्विषये पुरुषकारोऽत्र द्रष्टव्यः (पृष्ठ १८)। ५. 'प्रज्ञपयति शरम्' इत्युदाहरणं धातुवृत्तौ (पृष्ठ १३६) प्रदर्शितम् ।
६. अनुपलब्धमुलमिदम् । कस्यचिन्नाटकस्य सूत्रधारवाक्यमेतत् स्यात् । तुलनीयम्- 'प्राज्ञापितोऽस्मि परिषदा' इति मुद्राराक्षसे, 'अभिहितोऽस्मि विद्वत्परिषदा' इति मालविकाग्निमित्रे ।
७. अनुपलब्धमूलमिदं वाक्यम् ।