________________
भ्वादिगणः (१) ५३८. चण श्रण दाने । चणति । चणयति । चणकः। गतिहिंसार्थाच चाणयति । श्रणति । श्रणयति । चरादौ (१०।३७)। विश्राणयति । भज विश्राणने (१०।१७६) विश्राणनावन्यपयस्विनीनाम् (तु० रघु० २।५४) । शण इत्यपि दुर्गः-शणः शाणः ॥७७६,७७७॥ - ५३६. श्रथ' ऋथ क्लथ हिंसाः । ऋथति । कथयति । चुरादौ ५ (१०।२१८) चौरस्योत्काथयति । घन्ताणिजिति चन्द्रदुगौ,' नाटक्राथपिषार (२।३।५६) इति लिङ्गाच्च ।।७७८-७८०॥
५४०. चनु च । चकाराद् हिंसार्थः । चनति । चनयति ॥७८१॥
५४१. वनु च नोच्यते । तथा अनुकर्षणार्थश्चकारः । यद् वा न ३ केवलं कगे, यावद् वनु च नोच्यते क्रियासामान्यवाचित्वात् । वनति। १० वनयति । वत्वा, वनित्वा । क्तः। संवननम् । वन षण भक्तौ (१॥ ३११) इत्यस्य वानयति ॥७८२॥
५४२. ज्वल दीप्तौ । ज्वलति । ज्वलयति । अग्रे (द्र० ११५६८) ज्वलादिकार्यार्थः पाठः ॥७८३।।
७४३. ह्वल हल चलने । ह्वलति । ह्वलयति । विह्वलः ॥७८४, १५ ७८५॥
५४४. स्मृ प्राध्याने। आध्यानमुत्कण्ठा । स्मरति । स्मरयति । चिन्तायां (द्र० ११६६५) स्मारयति, विस्मारयति । अन्यत्रोक्तानामर्थविशेष मित्त्वार्थ इह पाठः ॥७८६॥
१. 'इलथ' इत्यधिक क्वचित् ।
२. चन्द्रगोमी धातुपाठे चुरादौ 'ऋथ हिंसायाम्' इत्येतं धातु न पठति । तदभावे च 'षष्ठी सम्बन्धे' (चान्द्रव्याक० २।१।९५) इति सूत्रव्याख्याने 'चौरस्योत्क्राथयति, चौरमुत्क्राथयति' इति प्रयोगसिद्धये 'घटादित्वात् कथयतीति प्राप्नोति । क्रथनं क्राथः, काथं करोति क्राथयति' इत्येवं व्याख्यातवान् । उत्तरोत्तरं धातुपाठेषु धातूना संक्षेपात् पूर्वव्याकरणानुसारं धातुनिष्पन्नानपि २५ शब्दान् उत्तरे वैयाकरणाः कथं नामधातोव्युत्पादनमारभन्त इत्येतदत्र स्पष्टम् ।। वस्तुतस्तु भगवता पाणिनिना नामधातोनिष्पादिताः प्रयोगा अपि धातुजा एव । एतदेव संचित्य महाभाष्यकरेण. नामधातुप्रकरणेऽसकृदुक्तम् - "धातव एवैते .... न चैव ह्या आदिश्यन्ते, क्रियावचनता च गम्यते" (३।११८,११,१६)।
३. 'चनु वनु स्मरणे' इति काशकृत्स्नः (पृष्ठ १०१)।
३०