SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ५ ११४ क्षीरतरङ्गिण्यां कठिचकिभ्यामोर : ( दश० उ० ८।२६) चकोर: । चक तृप्तौ ( १।१४) इत्यस्य चकते ॥७६१ ॥ ५३०. ष्टक स्तक प्रतिघाते । स्तकति । तिष्टकयिषति, तिस्तकयिषति ॥७६२,७६३ ॥ ५३१. कखे हसने । कखति । कखयति । एदित्त्वाद् - प्रकखीत् । उणादौ किखिर्लोमशः ' ॥७६४॥ ५३२. रगे शङ्कायाम् । रगति । अरगीत् । रगडस्ताल: ।।७६५|| ५३३. लगे सङ्गे । लगति । लगयति । अलगीत् । क्षुब्धस्वान्त । ध्वान्तलग्न । ( ७।२।१८ ) इति सक्ते लग्नः साधुः, लगितोऽन्यः ॥ ७६६ ५३४. ह्रगे लगे ष्ठगे स्थगे संवरणे । संवरणमाच्छादनम् । स्थगति । स्थगयति । तिष्ठगयिषति, तिस्थगयिषति च । षगे स्थगे इति दुर्गः ।।७६७-७७०।। ५३५. कगे नोच्यते । अस्यायमर्थं इति नोच्यतेऽनेकार्थत्वात् । नोच्यत इति योऽथस्तत्रार्थे कगिरित्येके ॥७७१॥ १५ ५३६. अक अग कुटिलायां गतौ । प्रकति । प्रगति । पृषोदरादौ न अनस प्रोकं गति हन्तीत्यनोकहो वृक्षः । प्रगति । अग्रम् ॥७७२, ७७३॥ ५३७. कण रण गतौ । अनयोर्गत्यर्थयोर्मित्त्वम् । शब्दे तु काणयति 1 ॥७७४, ७७५ ।। १. येषां विकल्पेन षत्वं विधीयते येषां च प्रत्ययान्तरे प्रतिषिध्यते ते द्विविधा धातवो भवितुमर्हन्ति । इह ५३४ सूत्रे ष्ठगे स्थगे धातू अपि द्रष्टव्यो । 8 २. पञ्चपाद्यां दशपाद्यां च 'किखि' पदं न व्युत्पाद्यते । भोजीयोणादौ ''किखिर्लोमशी' (स० क० २।१।१६६ ) हैमोणादौ किखिलमासका' ( सू० ६२६) इत्युक्तम् । हरदत्त स्तु 'अपचितपरिमाणः शृगालः किखी' इत्युक्तवान् २५ ( पदमज्जरी २|१|६ ) | ३. न्यायसंग्रहे (पृष्ठ १२३) 'अयं मौन इत्येके । * यथा कर्गात न वक्तीत्यर्थः । सर्वत्रियास्वित्यन्ये... इति व्याख्यायते । काशकृत्स्त्रीये धातुपाठे 'कगे गतौ पठ्यते ( पृष्ठ १०० ) । ४. 'आकम्' पाठा० । लिविशेन 'ओकं' इति शुद्धः पाठान्तरे न्यस्तः । ५. द्र० भोजीयम् 'अनेरोकह:' (स० क० २।३।१८५६) सूत्रम्, हैं मोणा३० दिसूत्रं (५६५) च ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy