________________
११०
क्षीरतरांयां
१०
मितः ' (१।५५३ ) इति मित्त्वान्मितां ह्रस्वः (६।४।१२ ) घटयति । घटनः । इह येऽन्यत्र पठितास्तेषां योऽयं उपात्तस्तत्रैवमित्वम्, त्रैव पठ्यन्ते तेषां सामान्येन, अनेकार्थत्वात् । अतो विघटयतीति चेष्टाभावेऽपि ह्रस्वः । कथम् - कमलवनोद्घाटनं कुर्वते ये ( सूर्यशतक २ ) प्रविघातयिता ससुत्पतन् हरिदश्वः कमलाकरानिव ( किरात २०४६ ) चुरादौ चट स्फुट घट च हन्त्यर्थाश्च' ( द्र० धा० सू० १० १६६ ) इति घटिर्नान्ये मितोऽहेतौ च (धा० सू० १०/८० ) इत्यमित् । ज्ञपादयो ( द्र० धा० सू० १००७५-७६) येऽधीतास्तेभ्योऽन्ये स्वार्थणिचि न मित इत्यर्थ:, तेन शम लक्ष श्रालोचने (धा० सू० १०।१४३) निशामयते, श्रम रोगे (धा० सू० १० । १६६ ) ग्रामयतीत्यादि सिद्धम् । चटादयस्त्रयो हन्त्यर्थवृत्तयो णिचमुत्पदयान्तीति तु दर्शन एभ्यो घञन्तेभ्यो' णिच्, इत्थञ्च उन्नामिता खिल महीधर कन्धरस्य' तथा चौरस्योत्क्राथयति इति सिद्धम् । साम्यतीति तु संक्रामन्तं करोतीति ( द्र० धा० सू० १०।२६७) इति णिच् । 'क्षपयित्वा घनसम्पदमम्बुशोषः कृतः १५ सवित्रा तथा भेषजक्षपिताऽङ्गानां च' इत्यविगानात् क्षपिश्चुरादौ दन्तो प्रभ्यू : चिण्णमुलोदीर्घोऽन्यतरस्याम् ( ६ ४ ६३) अघाटि घटि, घाट घाट, घटं घटम् । प्रभिधानलक्षणत्वात् कृतण्यन्ताण् णमुल् । घटादीनां वित्त्वात् ( द्र० धा० सू० १।५२२) षिद्भिदादिभ्योऽङ् (३।३।१०४) घटा, शकधृष ( ३/४/६५ ) इति तुमुन् - घटते भोक्तुम् । घटः । इह घटादी केऽप्यत्रैव पठिताः प्रकृत्यादिविषयाः २० न्याय्यविकरणाश्च । श्रन्ये तु स्वस्थानोक्तकार्यभाजः पित्त्वमित्त्वार्थमनूद्यन्त इति यथायथमुत्प्रेक्ष्यम् ॥७४१॥
५११. व्यथ भयचलनयोः । दुःखचलनयोरिति दुर्ग: । व्यथते । १. केचन मित्त्वं विभाषा मन्यन्ते । तथा चोक्तम् 'सर्वेषां मितां वैकल्पिकरामायण शिरोमणिटीका १।१७।२६; पृष्ठ १५६ ।
५
२५
३०
त्वात्
२ ' हन्त्यर्था:' पाठा० ।
३. सन्दिधोऽयं पाठः ।
४. अनुपलब्धमूलमिदम् ।
५. चुरादिगणे बहुलमेतन्निदर्शनम्' ( सूत्र ३२५ ) इत्यस्य व्याख्याने क्षीरस्वामिना 'क्षप प्रेरणे' उदाहरणरूपेण पठितः । स च देवराजयज्वना निघण्टुवृत्तौ ( पृष्ठ ४३.१०९) दैवव्याख्यांत्रा च पुरुषकारे ( पृष्ठ १५ ) उद्धृतः । ६. न्यायविकरणार्थ ः' पाठा० । न्याय्यविकरणः शब्त्रिकरणा इत्यर्थः ।