________________
१०८
क्षीरतरङ्गिण्यां
५००. णभ तुभ हिंसायाम् । नभते । तोभते। 'क्रयादी (६।५३) नभ्नाति, तुभ्नाति । असुन (दश० उ० ४।४६) नभः ॥७३॥
५०१. नन्सु स्वन्सु भ्रन्शु अवस्र सने । स्रसते । नोग्वन्चुस्रन्सु(तु० ७।४।८४) इति सनीस्रस्यते । वसुन सध्वंस्वनडुहोदः (तु०८।२।७२) उखास्रत् । स्रस्त्वा स्रंसित्वा। क्तिन् पाबादिभ्यः (३।३।६४ वा०) स्रस्तिः । ध्वंसते । दनीध्वस्यते । पर्णध्वत् । ध्वस्तिः । ध्वस्त्वा, ध्वंसित्वा । ध्वस्तः । भ्रंशते । भ्रष्टिः । बनीभ्रश्यते । भ्रष्ट्वा भ्रंशित्वा । भ्रष्टः । दिवादौ (४।११८) भ्रश्यति ॥७३२-७३४॥
५०२. ध्वन्सु गतौ च ।
५०३. सन्भु विश्वासे । विस्रम्भते । व्यस्रभत्, व्यस्रम्भिष्ट सन्हुः इति कौशिकः-स्रंहते, ऊष्मान्तप्रस्तावात् ॥७३५॥ -- ५०४. वृतु वर्तने । वर्तनं स्थितिः । वर्तते वर्तन: । अवृतत् अव. तिष्ट वृद्भ्यः स्यसनोः (११३।६२) वा परस्मैपदम् । न वद्भयश्चतुर्यः (७।२।५६) इति तत्रैव नेट-वय॑ति । वतिष्यते । अवय॑त्, अवतिष्यत । विवृत्सति, विवर्तिषते। वृत्त्वा, वर्तित्वा । वृत्तः, वत्तिः, वत्यः । वत्तिरस्त्यस्याम्-वार्तः । वृतेश्च (उ० २।१७) इत्यनिः- वर्तनिः । मनिन् (दश० उ० ६।७३)-वर्त्म । हेरध्ययने वृत्तम् (७।२।३६) हस्ते वर्तिग्रहोः (३।४।३६) णमुल्-हस्तवतं वर्तयति । रक (द्र० उ० २।१६) वृत्रः । वार्ताकः । वर्तकः। वर्तका शकुनी प्राचाम् (७।३।४५ वा०) उदीचां वर्तिका। हपिशि (दश० उ० २४७) इतीन्-वतिः । दिवादौ वतु वरणे (४।४६) इत्येकेवृत्यते । चुरादौ (१०।१९७) भासार्थः- वर्तयति ।।७३६।।
१. इत: पूर्वम् 'दिवादी (४११३१) नभ्यति तुभ्यति' एतावान् पाटो नष्टः स्यात्, दिवादिगणस्थयोरत्रास्मरणात् ।
२. ध्वन्स्वनडुहां दः' इति काशिकादिषु पाठः ।
३. एतेन 'नीग्वञ्चुस्रसुध्वंसुभ्रंसु०' इत्यादिसूत्रे 'भ्रशु' इति पाठः स्वामिमते इति ज्ञाप्यते । अन्ये त्वत्र धातुसूत्रे (५०१) प्रष्टकसूत्रे च 'भ्रंसु' इत्येव पठन्ति । अत्र धातुवृत्तिरपि द्रष्टव्या (पृष्ठ १३१ तथा ३०६)।
४. विपूर्व एव विश्वासे इति ज्ञापनार्थो विपूर्वस्य प्रयोगः। ५ 'वर्तनम्' पाठा० । ६ अत्र वृत्तेश्च'(५।२।१०१)वात्तिकेन णः प्रत्ययः ।
३०