________________
५
१०
१५
ܘܢ
२५
३०
१०६
क्षीरतरङ्गिण्यां
क्विप् - विद्यत् । द्युतेरिसिरादेश्च जः' (तु० उ० २०१११ ) ज्योतिः । घटादेः (१।५१०) प्राग् द्य ुतादिगण: ।। ७२० ।
४६१. श्विता वर्णे । श्वेतते । श्रश्वितत् । श्रश्वेतिष्ट । श्रादितश्च ( ७/२/१६ ) इत्यनिट् - श्वित्तः । विभाषा भावादिकर्मणोः ( ७।२। १७) - श्वित्तमनेन श्वितितमनेन ; प्रश्वित्तः, प्रश्वितितः । क्त्रःश्वित्रम् ।।७२१॥
४६२. ञिमिदा स्नेहने । स्नेहनं स्नेहयोगः । मेदते । मिन्नः, मिन्नमनेन; मेदितम् । निष्ठा शो स्विदिमि दि ( १ २०१६ ) इति कित्त्वं नास्ति प्रमिन्नः प्रमेदितः । भञ्जभासमिदो घुरच् ( ३।२।१६१) - मेदुरः । अमिचिमिदिशसिभ्यः क्त्रः ( उ०४ १६३) मित्रम् । श्रसुन् (दश० उ० ४६) मेदो वसा । अचि - मेदाख्यो म्लेच्छ: ' । मेदिनी । दिवादौ ( ४ १३३) मेद्यति । चुरादौ मिद स्नेहने (तु० १०1८) मेदयति ।। ७२२ ||
-
४६३. त्रिक्ष्विदा स्नेहनमोहनयोः । वेदते । क्ष्विण्णः । ञिविडा इत्यार्हतः । क्ष्वेडो विषम्, क्ष्वेडाः रवः । ञिष्विदा इति नन्दी - स्वेदते, स्विदत्, अस्वेदिष्ट । स्विन्नः । सः स्विदिस्वदिसहीनाञ्च ( ८ | ३|६२ ) इति सः - - सिस्वेदयिषति । ष्विदा गात्रप्रक्षरणे (४७६) अस्मात् स्विद्यति ॥ ७२३॥
४९४. रुच दीप्तावभिप्रीतौ च । प्रभिप्रीतिरभिलाषः । रुच्यर्थानां
१. धातुसूत्र १।२७ व्याख्याने 'द्युतेरिसिजादेश्च जः' इति पठ्यते । उभावपि पाठावशुद्धौ । उभयोः पाठयोश्चित्त्वात् प्रत्ययस्वरेण वा ज्योतिपदस्यान्तोदात्तत्व प्राप्नोति । दृश्यते तु ज्योतिष्पदमाद्युदात्तम् । तेन दशपाद्यां पञ्चपाद्यां च पठ्यमान: 'द्युतेरिसिन्नादेश्च जः' इत्येव शुद्ध: पाठो ज्ञेयः । २. अत्र २० पृष्ठस्था ६ टिप्पणी द्रष्टव्या ।
1
३. 'श्वेतितम्' पाठा० ।
४. प्रश्वेतित: " पाठा० ।
५. इतोऽग्र े 'अर्श' इत्यधिकम् । ६. क्षीरतरङ्गिण्यामुत्तरत्र ( ४ । १३३ ) ' मेदाख्यो देश' इति पठ्यते । किमयं 'मेदपाट' शब्देनोच्यमानो मेवाड़देशः संभवति ?
७. स्मृतमिदं पुरुषकारे (पृष्ठ ८२) धातुवृत्ती (पृष्ठ १३० ) च । वस्तुतः पाठोऽयं ग्रन्थकारस्यानभिमत: । यतो हि १।७०५ - ४ । १३४ धातुसूत्रव्याख्ययो रम्यास्मरणात् । ८. तथा च प्रयुज्यते— 'न क्ष्वेडेत्' । मनु० ४ | ६४॥