________________
१४
भ्वादिगण: (१)
१०५
तुह्योर्ह स्वश्च ( उ०२।५२ ) इति तुहिनम् । श्रोहति । अपोहति । श्रहत् श्रहीत् । तुहिर् दुहिर् इति चन्द्रदुगौं' (चा० वा० १।२५७) ।।७१७,
७१८ ॥
४८८. श्रर्ह पूजायाम् । श्रर्हति । श्रहं ( ३।२।१२ ) इति कर्मण्यच् अणो बाधः:- पूजार्हा । श्रर्हः पूजायाम्' (तु० ३।२।१३१) शता अर्हन् । ५ न्यङ्क्वादित्वात् ( द्र० ७ । ३ । ५३) अर्ध: । हलश्च ( ३ | ३|१२१ ) इति करणे घञ् । श्रधिर्धात्वन्तरम् - कलां नार्धन्ति षोडशीम् । अर्धो मूल्यम् | शकधृषज्ञा (३ | ४ | ६५ ) इति तुमुन् - अर्हति भोक्तुम् । श्रहं पूजने चुरादी (१०।१७७) णिच् - प्रति, योग्यत्वादौ नास्ति ( ? )
॥७१६॥
४८६. उदात्ता श्रनुदात्तेतः ।
[सेट प्रात्मनेपदिनः ]
४६० द्युत दीप्तौ । इतस्त्वरान्ता: ( १ ५२१ ) सप्तत्रिंशत् सेट श्रात्मनेपदिनश्च । द्योतते । द्यद्भ्यो लुङि ( १ ३ ६१ ) इति वा परस्मैपदम्, तत्रैव पुषादिद्य तादि ( ३ । १ ५५ ) इत्यङ् - प्रद्युतत् । तङि व्यद्योतिष्ट । द्य तिस्वाप्योः सम्प्रसारणम् ( ७।४।६७) लिटि - विदिद्यते । वचनाद् हलादिशेषाभावः * चङि - व्यदिद्य तत् । द्योतनः ।
१०
१५
१. उदधृतमिदं पुरुषकारे (पृष्ठ १२० ) ।
२. 'अर्ह : प्रशंसायाम्' इति काशिकादिषु पाठ: ।
३. इज़र्टन - सम्पादिते महाभारतस्य पुना-संस्करणे सभापर्वणि ३८ / २६ २० श्लोके शारदा लिप्यां लिखिते काश्मीरकोशे 'कलां नार्घन्ति षोडशीम्' इत्येव पश्यते । D४ संज्ञके कोशे वर्तमान, 'नार्घन्ति' पाठाज्ज्ञायते महाभारतस्य काश्मीरपाठः क्षीरस्वामिनः प्राचीन: । हैमधातुपारायणम् (१।५६४) अप्यत्रानुसंधेयम् ।
४. प्रयं भावः - 'द्युत् द्युत्' इति द्विर्वचने न तावत् 'हलादि शेष:' प्रवर्तते, २५ संप्रसारणं पूर्वं प्रतीक्षते, अन्यथा हलादिलोपेन यस्य निवृत्ती कस्य संप्रसारणं
स्यात् ।