________________
भ्वादिगणः (१)
४५२. खूष प्रसवे । सूषति । सुषूष । तालव्यादिरिति चरकः' शूषा शाकम् ॥६५८॥ .
४५३. यूष हिंसायाम् । ४५४. जूष च । यूषः । यूषम् । जूषितः । जूषा ॥६५६,६६०॥
४५५. भूष अलङ्कारे । भूषति । भूषा। चुरादौ (१०।१७५) ५ भूषयति । तसि भूष इति दुर्गः । तंसति । उत्तंसः । अवतंसः ।।६६१।।
४५६. ऊष रुजायाम् । ऊषति । ऊषः क्षारमृत्तिका । ऊष्मा, ऊषणम् मरिचम् । त्र्यूषणं त्रिकटुकम् ॥६६२॥ ४५७ ईष उञ्छे । ईषति। ईषा प्रणगवेषणी' । इषुः । इषीका
॥६६३।। १० ४५८. कष शिष जष झष शष वष मष मुष रुष रिष हिसार्थाः । कषति । निकषोऽश्मा । पत्काषी । सर्वकूलाभ्र (३।२।४२) इति खच् - कूलङ्कषः । कृच्छगहनयोः कषः (७।२।२२) इति क्तेऽनिट-कष्टोऽग्निः । निमलसमूलयोः कषः (३।४।२४) इति णमुल कषादिषु तैरेवानुप्रयोगः (द्र० ३।४।४६) समूलकाष कषति । वौ कषलस (३। १५ २।१४२) इति घिनुण-विकाषी। कषिः, कषी खनित्रम् । कषेश्छ च (तु० उ० ११८४) इति कच्छ्र: पामा । वृतृवदि (उ० ३।६२) इति सः : कक्षस्तृणं बाहूरुमूलञ्च । गृहोपान्ते तु कक्षा कक्ष्या च । कषिदू. विभ्यामीकन् (तु० उ० ४।१६) कषीका। शेषति । रुधादौ शिष्ल विशेषणे (७।१६) विशिनष्टि । चुरादौ शिष असर्वोपयोगे (१०। २० २११) शेषयति, शेषः । झषति । झषः । शषति । शष्यते । शष्पः । मषी । मष्यते-माषः । मोषति । क्रयादौ (९।६१) मुष्णाति । रोषति । दिवादी (४।१२३) रुष्यति । रुष्यन्ती। रेषति । दिवादौ रिष्यति । "तीषसहलुभ (७।२।४८) वेट-रोष्टा रोषिता । रुष्यमत्वर (७।२।
१. 'तालव्योष्मादिरिति पारायणिका इति स्वामी' इति धातुवृत्ती (पृष्ठ २५ १२१) उध्रियते । अयं पाठ: क्षीरतरङ्गिण्यां नोपलभ्यते ।
२. पिप्पली, शुण्ठी, कृष्णमरीचिका च 'त्रिकटुकम्' इत्युच्यते । ३. शुद्ध पाठो मृग्यः । 'परिशिष्येत' प्रयोगः । गो० ब्रा० १।३।५, । ४. क्षीरतरङ्गिण्यां दिवादी रिष धातुर्न पठ्यते ।
५. अग्रे ११५६०; ४११२३,-६।५८ धातुसूत्रव्याख्याने 'तीषुसहलुभ -इत्येवमुकारान्त: 'इसु' पठ्यते । ४।१२६ धातुसूत्रव्याख्याने 'तीषु तीष इत्युभ